________________
कुमारपालचरिते
खज्जूरेहि पिआलेहिं फणसेहिँ अवि दंसिअ - फलत्तो । हरिसाओ दूराउ वि उज्जाणमिमं न को सिहइ ॥ २३ ॥ सिरिसीहिन्तो तह किंसुआहि बउला य महमहिअ गन्धो । देसतो गामाओ नयराउ वि कं न आणेइ ॥ २४ ॥ पत्थाहिन्तो रामेसुन्तो देवेसराहि वि अणूणो । धारा - हरस्स मज्झे तओ गओ सजिअम्मि निवो ॥ २५ ॥ अलीण । रवेण । टामोर्णः " [ ६ ] इति टाया आमश्च णः ॥
१२२
२३. खर्जूरैः प्रियालैः राजादनैः पनसैश्च कृत्वा दर्शितं च तत् फलं 'च एतस्मात् प्रकटितफलाद् अत एव हर्षाद् दूराद् अनासन्नदेशादपि को न उद्यानम् इदं स्पृहयति । अपि तु तत्तद्वृक्षफलास्वादवाञ्छया सर्वोपि सहर्षम् इदम् अभिलषतीति भावः ॥
खज्जूरेहि । पिआलेहिं । फणसेहिँ । " भिसो हि हि हिं " [७] ॥
२४. शिरीषात् तथा किंशुकाद् बकुलाच्च प्रसृत्य गन्धः कर्ता देशेभ्यो मामेभ्यो नगरेभ्योपि कं न आनयति किं तु तेन गन्धेन कृष्टः सर्वतः सर्वोप्यागच्छतीत्यर्थः ॥
फलन्तो । हरिसाओ । दूराउ । सिरिसाहिन्तो । किंसुआहि । बउला । “ङसेस् तो दो दुहि हिन्तो लुक् " [ ८ ] इति ङसेः षड् आदेशाः ||
२५. अथ ग्रीष्मर्तुविलाससर्वस्वभूतं जलकेलिक्षणं विवर्णयिषुः जलयन्त्रगृहनृपप्रवेशपूर्वं जलयन्त्रगृहवामादिदेशतद्वितर्दिमकरमुखस्फटिक
स्तम्भद्वारोत्तरङ्गपञ्चालिकाकर्णादिप्रदेशेभ्यस्तत्साधनभूतं जलनिर्गमम् आह । पार्थेभ्यः पाण्डवेभ्यः रामेभ्यः रामचन्द्रपरशुरामबलभद्रेभ्यः इन्द्रेभ्योपि अनूनः । सर्वोत्तम इत्यर्थः । नृपः धारागृहस्य जलयन्त्रगेहस्य सज्जिते सकलोपकरणोपेते मध्ये ततो दौवारिकाद् ग्रीष्मप्रादुर्भावश्रवणानन्तरं गतः प्रविष्टः ॥
१ BD सिरसा°. २ BC किं. ३ B सिरसा ..