________________
तं निव- पुच्छि - दोवारिएण भणिअं ति आम गिम्ह-सिरी । उन्हेह सीअला णवि कयलि-वणे पेच्छ पुणरुत्तं ॥ १ ॥ हन्दि विदेसो जीव हन्दि पिआ हन्दि किं पिआ मुक्का । हन्दि मरणं जमो गिम्हो हन्दि लवन्ति इअ पहिआ ॥ २ ॥
१. अधुना सप्तसप्तत्या गाथाभिग्रष्मर्तुं वर्णयन् आह । नृपेण कुमारपालभूपालेन पृष्टः. वसन्तर्त्वसंभविपुष्पादिदर्शनात् कः संप्रति ऋतुरिति नोदितो यो दौवारिकः प्रतीहारस्तेन इति अमुना प्रकारेण भणितम् । तं इति वाक्योपन्यासे । विवृत्य उक्तम् इत्यर्थः । तदेव वाक्यार्थकर्मणा आह आमेत्यादि । आमेति अभ्युपगता अङ्गीकृता । ज्ञातेति यावत् । ग्रीष्मश्रीः इह उद्यानेस्ति । णवीति वैपरीत्यार्थत्वाद् अप्यर्थो ज्ञेयः । उष्णापि शीतला कदलीवने पश्य । राजन् इति “ शेषः । पुणरुत्तम् इति एकवारं दृष्ट्वा भूयोपि अवलोकयेति । एवम् • अपि राजन् इति संबोधनपदं ज्ञेयम् ॥
[ " अव्ययम् ” । १७५ । अधिकारोयम् । इतः परं ये वक्ष्यन्ते आ
. पादसमास्ते अव्ययसंज्ञका ज्ञातव्याः ] ॥
तं । “ तं वाक्योपन्यासे " [१७६ ] ॥
""
आम । आम अभ्युपगमे " [१७७] ॥
८८
- णवि । णवि वैपरीत्ये ” [१७८] ॥
पुणरुत्तं । “ पुणरुत्तं कृतकरणे ” [१७९] ॥
२. हन्दि इति विषादे । कष्टं विदेशोऽस्माकम् || हन्दीति विकल्पे | जीवति प्रिया न वा ॥ हन्दीति पश्चात्तापे । किं प्रिया अस्माभिर्विरह
१ B सप्तत्या.
8 [कुमारपालचरित]