________________
कुमारपालचरिते . विञ्चुअ-अहिविञ्छिअ-अच्छीविस-विस-हरण-छेत्त-सेअ-जलं। खुर ताडण-अखम-छमं रिक्ख-पवङ्गेस-सम-वेगं ॥ ८९॥ . अवि रिच्छ-सरिच्छेहिं सणिच्छयं सच्छणं च लोएहि । अच्छी-पच्छं लिच्छूहिँ पेच्छिअं आसमारूढो ॥९॥
..आस्कन्दितं धौरितकं रेचितं वल्गितं प्लतम् ।। इति गतिविशेषाः । तासु अकृतनिर्वेदम् । तत्रासक्तम् इत्यर्थः । तथा . ज्ञत्वाद् विचक्षणत्वाद् बुद्धा अवगम्य पृथ्व्या पृथ्वीस्थजनेन वर्णितं. श्लाषितम् । कथम् । शिक्षया विद्वान् इति सर्वगतिकरणनिपुण इलि ॥
८९. वृश्चिकाश्च घुणाः । आहिमूत्रोद्भवा वृश्चिका अहिवृश्चिकाश्च , तीव्रविषघुणविशेषाः । अक्षिषु विषं येषां तेच ते अक्षिविषाः सर्पविशेषाः । तेषां यद् विषं गरलं तस्य हरणं ध्वंसकं क्षेत्रस्य शरीरस्य स्वेदजलं घर्माम्बु यस्य । खुराणां ताडने आघाते अक्षमा असमर्था । वेपमानेति यावत् । इत्थंभूता क्षमा पृथिवी यस्मात् । ऋक्षाश्च जाम्बवदादयः । प्लवङ्गाश्च हनूमदादयः । तेषाम् ईशः सुग्रीवः तेन समवेगं तुल्यत्वरितगतिम् ॥
९०. ऋक्षसक्षैरपि चापल्याद् अच्छभल्लकल्पैरपि सनिश्चयम् एकाग्रचित्तम् । यद्वा ऋक्षसदृक्षैरपि चञ्चच्चारुहारादिमनोहरत्वेन तारककल्पैरपि सक्षणं सोत्सवं च यथा भवति एवम् अक्षिपथ्यं लिप्सुभिलोकैः प्रेक्षितम् ।
लक्खण अखीणं । " क्षः खः'[३]इति क्षस्य खः॥ वाचत्तु छझार्वेपि । अछीण । अझीण ॥
१C लोगेहिं. २ B निर्वेदः. ३ B °घुणशेषाः. ४ B छत्सावमि.