________________
कुमारपालचरिते दोहल-दुउणिअ-धाराकयम्ब-धूलीकलम्ब-कण्टइओ। धिप्पिर-सुवन्न-दिप्पिर-तणु-कन्ति-कवट्टिअन्न-पहो ॥४९॥ चइउं निव-कउहाई निसंढाइ-निवाण धम्म-सिक्खाओ ।
ओसहमोसढिओ इव दिन्तो स निसीहिअं काउं॥५०॥ निअ-नामङ्किअ-णिअ-कित्तणयं अनिला ब्व अतुल-थामेण । पज्जलिआनल-तेओ भत्तीइ तओ पइट्ठो सो ॥५१॥
४९. दोहदेन स्वसमयोद्धृतधूलिधाराधरधाराधोरेणीछोटनरूपदौहृदपरिपूर्त्या द्विगुणितौ वृद्धिं गतौ यौ धाराकदम्बधूलीकदम्बौ ताविव कण्टाकतः संजातरोमाञ्चः । दीप्रसुवर्णवद् दीप्रा या तनुकान्तिस्तया कदर्थितान्यप्रभः ॥ एकस्यैव कदम्बस्य द्विधा अभिधा । यदुक्तम् ।
ग्रीष्मसमैये विकासी कथितो धूलीकदम्ब इति लोके । ..
जलधरसमयप्राप्तौ स एव धाराकदम्बः स्यात् ॥ ५०. नृपककुदानि छत्रखगवाहनमुकुटचामररूपराजचिह्नानि त्यक्त्वा निषधादिनृपेभ्यो धर्मशिक्षाः धर्मोपदेशान् ददत् वितरन् । किंवत् । यथा औषधानि पण्यम् अस्य औषधिकः गान्धिकः औषधम् इति । स चतुःसमुद्रवसुंधराप्रसिद्धः नैषेधिों कृत्वा ।।
५१. अतुलस्थाना अमितबलेन कृत्वा अनिल इव वायुसदृक्षः प्रज्वलितानलतेजा जाज्वलितज्वलनप्रतिमप्रताप इति ।।
पडिहार सुपडायं । " प्रत्यादौ डः" [ २०६ ] इति तस्य डः ॥ आर्षे दुक्कडादि ज्ञेयम् ।। प्राय इत्येव । सुपइटुं ।।
वेडिस । “ इत्वे वेतसे" [ २०७ ] इति तस्य डः ॥ गब्भिणयं । अणिउर्त्तय । “गर्भितातिमुक्तके णः [२०८] इति तस्य णः ॥ रुण्ण । “ रुदिते दिना ण्णः " [२०९ ] इति दिना सह तस्य ण्णः । बाहत्तरि । “ सप्तरौ रः" [ २१० ] इति तस्य रः ॥ . सालाहण । अलसि । “अतसीसातवाहने लः ” [२११] इति तस्य लः॥ १ BC निसिढाइ . २ BC °धोरिणी. ३ BC °समय . ४ BC प्राप्तो स एव. ५ D निषेधिकी. ६ BC अणिउतय.