________________
[है० ८.१.२०५] द्वितीयः सर्गः । • डाहत्त-दाह-हरणं कय-डोहलयाण पुन-दोहलयं । । कडण-मइ-चत्त-कदणं डब्भङ्कुर-नील-नीलमणिं ॥ ४६॥ दब्भग्ग-मई दर-डोलिर-सीसमदोलिरेण हिअएण । दूरमहरं डसन्ते डहमाणो मिच्छ-दिहि-जणे ॥४७॥ थुणिरो देवं बारह-रवि-तेअं भत्ति-गग्गर-गिराए। . धम्म-करि-करलि-हूओ कयलि-मिऊ कोह-अपलित्तो॥४८॥
धूपाभ्यां शुभगन्धम् । अहिदशनदष्टानां शरणं त्राणस्थानम् । लग्नगाढविषाशिषोपि तत्रागता जीवन्तीत्यर्थः । दशनानां दन्तिदन्तानां कपटानि तेषाम् अंशवः तैर्दष्टं प्रस्तं तमो येन ॥
१६. दाहार्तदाहहरणं भवदावसंतापापनोदकम् । कृतदोहदानां संजातदोहदानां पूर्णदोहदम् । पूरिताभिप्रेतम् इत्यर्थः । कदनमतिभिः हिंसाबुद्धिभिः । पापिष्टैरित्यर्थः । तैरपि त्यक्तं कदनं यत्र । दर्भाधैरवद् नीला नीलमणयः प्राङ्गणादिषु यत्र तत् तथा ॥
.. ४७. स च कीदृशः । दर्भस्य कुशस्य अयं तद्वत् सूक्ष्मार्थपरि. च्छेदकत्वेन मतिर्यस्य । अदोलावता निश्चलेन हृदयेन उपलक्षितः ।
दरदोलावत् । शीर्ष जिनबिम्बरामणीयकविलोकनविस्मयेन ईष.. ' चलन्मस्तकं यथा भवति एवं प्रविष्टः जिनप्रवचनप्रभावनामात्सर्येण विनाशक्ततया च दूरम् अतिशयेन अधरं दशतो मिथ्यादृष्टिजनान् दहन संतापयन् ॥
४८. द्वादशरवितेजसं देवं वीतरागं भक्तिगद्गदगिरा जयजयेत्यादिवाचा स्तोता स्तवनशीलः । धर्म एव करी तत्र कदलीभूतः शोभाकृत्त्वेन पताकातुल्यः । कदलीवद् मृदुः कोमलाङ्गः । क्रोधेन अप्रदीप्तः । प्रशान्त इत्यर्थः ॥