________________
[ है ० ८.१.१९५]
द्वितीयः सर्गः ।
५३
वेस- पिसाओ मुत्ती- पिसल्लओ अ झडिलो अजडिलो य । खट्टङ्ग - घण्ट - भूसो निवारिओ न जह अटइ पुरो ।। ३५ ।। के ढव-सयढारि - सढाल - विक्कमो फालह-विमल-नेवच्छो । चविला - फालिअ - कुम्भो नहं व चविडाइ फाडन्तो ।। ३६ ।। अकोल्ल-तेल्ल - णिद्धो असढो पिहडो कलाण सयलाण । लहु - जढर - पिढर- पडियार - पाडणत्ताण कय-कीला ॥ ३७ ॥
३५. वेषेणं पिशाचः जीर्णविवर्णविकृतवेषवान् ग्रहिलप्रायः । मूर्त्या पिशाचश्च भीषणदर्शनः । जटिलः सर्वत्र उद्गतरोमा । अजटिल: मुण्डितशिरमुण्डः कापालिकादिः । खट्वाङ्गघण्टाभ्यां भूषा यस्य । स मृतककपाळघण्टादिकलित ईश्वररूपधारी । जटाधर इत्यर्थः । निवारितो दुःशकुनकारणाद् निषिद्धः यथा येन पुरः अग्रे न अटति नागच्छति ॥ " खचित ● इत्यादिना
""
खासअ खइअङ्गे । प्रिसाओ पिसलओ । [ १९३ ] यथासंख्यं सल्लौ वा ॥
झडिलो अजडिलो । " जटिले जो झो वा " वा । "टो डः "" [१९५ ] इति टस्य डश्च ॥ असंयुक्तस्येत्येव । खट्टङ्ग || क्वचिन्न | अटइ ||
[ १९४ ] इति जस्य झो स्वरादित्येव । घण्ट ॥
३६. चतुर्भिः कलापकम् । कुमारेण कुमारपालेन कारितो विहारः कुमारविहारस्तंस्मिन् श्रीपार्श्वनाथचैत्ये प्राप्तः । राजेति प्रक्रमात् ज्ञेयम् । कीदृशः । कैटभशकटौ दैत्यौ तयोर्यः अरिभूतः सटालो नरसिंहस्तद्वद् विक्रमो यस्य । स्फटिकवद् विमलनेपथ्यः । चपेटया पाटितस्ताडितः कुम्भो येन स तथाभूतः । श्यामकुम्भस्थलास्फालनात् अत्युच्चत्वेन अदृश्यकुम्भस्थलदत्तचपेटोत्थप्रतिरवाद् वा उत्प्रेक्ष्यते नभश्वपेटया पाटयन्निति ।
३७. अङ्कोठतैलवत् स्निग्धः अरूक्षकायः अशठः शाठयवर्जितः
१ D मृत्कपाल°. २ B अच्छव्युतत्वेन; C अव्यतत्वेन.