________________
कुमारपालचरिते पुन्नाम-दामवन्तो पुलोइओ भामिणीहि पउरीहिं। . छालङ्क-देव-तेओ सुहओ रइ-मूहवो व्व निवो ॥३३॥ इन्दो दुहओ चन्दो वि दूहवो आसि खेअर-वहूणं । तस्सि दिटे तइआ मणि-खसिआहरण-खइअङ्गे ॥३४॥
खादीनां हः । असंयुक्तस्यैव । चोत्थि। मयावत्थं ॥ प्राय इत्येव । सरिसव-खल । अथिरो । निव-धम्म । नभम्मि || पिध अपिहं । " पृथकि धो वा” [१८८] इति थस्य धो वा ॥ असङ्खलं । "शृङ्खले खः कः [१८९] इति खस्य कः ॥ .
३३. गाथासप्तकेन राजवर्णनम् आह । पुन्नागदामवान् 'सुरपर्णिकाकुसुममालायुक्तः । छागाङ्कदेवो वह्निः । तद्वद् द्विषदारुदाहकत्वात् तेजो यस्य । सुभगः अनुकूलाचरणेन जगजनप्रियः नृपः रतिसुभगः इव कन्दर्पवद् भागिनीभिः भाग्ययुक्ताभिः पौरीभिः नागराङ्गनाभिः प्रलोकितः सोत्कण्ठम् ईक्षितः ॥ पुन्नाम । भामिणी हि । “पुन्नागभागिन्योगों मः''[१९०] इति गस्य मः ॥ छालङ्क । “ छागे लः'' [ १९१] इति गस्य लः ॥ ३४. तदा राजवीथीचलन्मदकलपृष्ठतलारोहकाले मणिखचिताभरणैः पद्मरागेन्द्रनीलादिरत्नरोचिष्णुकटककेयूरमुकुटाद्यलंकारैः खचितानि युक्तानि अङ्गानि हस्तचरणोत्तमाङ्गप्रमुखा अवयवा यस्य तस्मिन् राज्ञि दृष्टे सति खेचरवधूनाम् इन्द्रो दुर्भगश्चन्द्रोपि दुर्भग आसीत् ।। सौम्यसौभाग्यलावण्योपततेत्तनुविलोकने सर्वाङ्गीणनयनसहस्रेण भीषणत्वाद् इन्द्रः अन्तर्मलीमसत्वेन च चन्द्रस्तासां न प्रियंभावुकतां जगामेत्यर्थः ॥
. . सूहवो । दूहवो । “ऊत्वे दुर्भगसुभगे वः' [१९२] इति गस्य वः ॥ ऊत्व इति किम् । सुहओ । दुहओ ।।