________________
( ४६३ )
सम्बन्धे णम्वा स्यात् । उरांसि प्रतिषेषं उरः प्रतिषेषम् । उरांसि प्रतिपेष्य वा युध्यन्ते ॥८०॥
परिक्लेश्येन०To - 1 परिसमन्तात् क्लिश्यमानं - पीड्यमानं परिक्लेश्यम् । ध्रु वार्थोऽयमारम्भः । उरांसि प्रतिपेषमित्यादि - उरांसि परितः पीडयन्तो युध्यन्त इत्यर्थः ||८०||
विशपत पदस्कन्दो वीप्साभीक्ष्ण्ये | ५|४ | ८ १|
द्वितीयान्तेन योगे तुल्यकर्तृ कार्थाद्विशादेर्वीप्साभीक्ष्ण्ययोर्गम्ययोर्धातोः संबन्धे णम्वा स्यात् । गेहं गेहमनुप्रवेशं गेहानुप्रवेशमास्ते गेहमनुप्रवेशमनुप्रवेशं गेहानुप्रवेशमास्ते । गेहंगे हमनुप्रपातं गेहानुप्रपातमास्ते । गेहमनुप्रपातमनुप्रपातं गेहानुप्रपातमास्ते । गेहं गेहमनुप्रपादं गेहानुप्रपादमास्ते । गेहमनुप्रपादमनुप्रपादं गेहानुप्रपादमस्ते । गेहं गेहमवस्कन्दं गेहावस्कन्दमास्ते । पक्षे । गेहं गेहमनुप्रविश्यांस्ते । गेहमनुप्रविश्यानुप्रविश्यास्ते . इत्यादि ॥८१॥
विशपत०10 - 1 विश्यादिक्रियाभिः साकल्येनोपपदार्थानां व्याप्तुमिच्छावीसा | प्रकृत्यर्थस्य पौनस्पुन्येनासेवनम् - आभीक्ष्ण्यम् । यदाहुः - सुप्सु वीप्सा, तिङसु अव्ययकृत्सु चाभीक्ष्यमिति । गेहं गेहमनुप्रवेशमित्य दिषु वीप्सायामुपपदस्य, आभीक्ष्ण्ये तु धातोद्विवचनन् । 'गेहानुप्रवेश - मास्ते' इत्यादी तु वीप्साभीक्ष्ण्ये शब्दशक्तिस्वाभाव्यात् समासेनैवोक्त, इति द्विचनं न भवति । 'ख्णम् चाभीक्ष्ण्ये' | ५|४|४८ । इत्यनेनाभीक्ष्ण्ये णम् सिद्ध एव विकल्पेनोपदसमासार्थं वचनम्, तेन हि समासाभावः स्यात् ॥ ८१ ॥
कालेन तृष्यस्वः क्रियान्तरे । ५।४।८२ |