________________
( ४३८ )
तस्य गमने सामर्थ्यम्, नवा श्रद्धानं यतः प्रायेण यास्यतीत्युक्त: निदेशस्थायिनाऽसमर्थेनापि गन्तव्यमेव, तत्रापि प्रायेणेत्यूक्तयाऽसामर्थ्यमपि व्यज्यते, यद्यपि श्रद्धाभावोऽप्यत्र तथापि न स वाच्य इति न द्वयङ्गविकलता । अत्र सप्तमीनिमित्तमस्तीति भते भविष्यति च क्रियातिपतने नित्यं कियातिपत्तिर्भवति-अपि पर्वतं शिरसाऽभेत्स्यत् । तथा 'काकिन्या हेतोरपि मातुः स्तनं छिन्द्यात्' इत्यत्र 'क्ष पेऽपि० ।५।४।१२। इति वर्तमानां बाधित्वा, चित्रमाश्चर्यमपि शिरसा पर्वतं भि-न्द्यादित्यत्र तु 'शेषे० ।५।४।२०। इति भविष्यन्ती च बाधित्वा परत्वादनेन सप्तम्येव भवति ।।२२।। .
अयदि श्रद्धाधातौ नवा ।।४।२३।
संभावनार्थे धातावुपपदेऽलमर्थविषये संभावने गम्ये सप्तमी वा स्यात् नतु यत् शब्दे । श्रद्दधे संभावयामि जीत भवान् । पक्ष, मोक्ष्यते अभुङ्क्त, अभुक्त वा । अयदीति किम् सम्भावयामि, द्र जीत भवान् । श्चद्धाधाताविति किम् । अपि शिरसा पर्वतं भिन्द्यात् ॥२३॥ अयदि०-। पूर्वेण नित्यं प्राप्ते विकल्पः । भोक्ष्यत इत्यत्र भविष्यन्ती । अभूक्त इत्यत्र शस्तनी । अभुक्त इत्यत्राद्यतनी संभावयामि यदित्यादिअत्र पूर्वेण नित्यं सप्तमी । अपि शिरसेत्यादिअत्रापि-पूर्वेण नित्यं सप्तमी। अत्रापि सप्तमीनिमित्तमस्तीति भूते भविष्यति च क्रियातिपतने नित्यं कियातिपत्ति:-संभावयामि नाभोक्ष्यत भवान् ॥२३॥ .
सतीच्छार्थात् ॥५॥४॥२४॥
सदर्थादिच्छार्थात्सप्तमी वा स्यात् । इच्छेत् । इच्छति ॥२४॥ सतीच्छार्थात् -। 'इषत् इच्छायाम्' अतः सप्तम्यां वर्तमानायां परतः शविकरणे गमिष०' ।४।२।१०६॥ इति षस्य छे, तस्य 'स्वेरेभ्यः' ।१।३।३०। इति द्वित्वे, 'अघोषे०' ।१।३।५०। इति पूर्वस्य चे-इच्छेत्,