________________
( २५७ )
पौ य्वर्जव्यञ्जनादौ च परे यवोर्लुक् स्यात् । क्नोपयति, मातम्, देदिवः, कण्डूः । य्वर्जनं किम् ? कनूय्यते ॥१२१॥ पुग्रहणमप्रत्ययार्थम् । क्नोपयति-क्नूयैङ् भ्वादिः 'अतिरी० ।४।२।२१। सूत्रात् पुरन्तः, यस्य लक । क्ष्मायैड विधन इत्यस्य क्ष्मातम् । दिवच क्रीडायाम् भृशं पुनर्पनर्वा दीव्यावः, यङ 'वहुलं लप् ।३।४।१५। सूत्रात् यो लुप्, वर्तमानावस् । कण्डमिच्छतीति कण्डूयति, क्यन्, कण्डूयतीति क्विप् अथवा कण्डूयनं कण्डू: 'ऋत्सं० ।५।३।११४। सूत्राक्विप् । 'अतः ।४।३।१२। सूत्रेणाकारलोपः, 'य्वोः प्वय० ।४।४।१२१।सूत्रात् यकारलोपः ॥१२१॥
-
कृतः कीतिः ।४।४।१२। कृ तणः कीति: स्यात् । कीर्तयति ॥१२२॥ कृतः ऋदुपदेशोऽचीकृतदित्यत्र ऋकारश्रवणार्थः । ननु धातुपाठे कृ तण् संशब्दने इत्यस्य स्थाने कीर्तणिति पठ्यतां किमादेशेनेति वाच्यमचीकृतदित्यत्र ऋकारश्रवणार्थ इति । 'ऋदेवर्णस्य' ।४।२।३७। सूत्रे वर्णग्रहणसामादत्र कीादेशो बाध्यते । ननु कृ तणित्यस्य स्थाने हस्वरिपाठ एव क्रियतामेवं च 'ऋहवर्णस्य' ।४।२।३७। सूत्रे वर्णग्रहणमपि न कर्तव्यं भवेदिति चेत्सत्यम् अत्र सूत्रे कृतण इत्यस्य कृतः' इति निर्देशे कृते कृतण अथवा कृतत् ग्राह्य इति संदेहः स्यात् । इकारान्तनिर्देशो मंगलार्थः ॥ १२२ ॥
* इति चतुर्थाध्यायः *
.
-:००: