________________
( ११४ )
स्वपर्यड-डे च ।४।१।८।
स्वपेर्यङि डे किति च परे सस्वरान्तस्था बृत् स्यात् । सोषुप्यते । असूषुपत् । सुषुप्सति ॥८०॥
असूषुपत-णिगमन्तरेण ङस्यासंभवात् स्वपितिय॑न्तो गृह्यते । उ य्वृत् गुणो, ‘उपान्त्यस्या० ।४।२।३५॥ इति ह्रस्वत्वं, दिवत्वं लघोऽर्दीघोऽस्वरादेः ।४।११६४। इति पूर्वस्य दीर्घत्वमित्यत्र क्रमः । ननु “प्राक् तु स्वरे" इति वचनात दिवत्वं पर्व भविष्यति, न त णिगाश्रितः गणः इति चेत् सत्यं यदि तेनैव दिवत्वनिमित्तन प्रत्ययेन यदि स्वरविधिजन्येत तदैव न, स्यादत्र तु द्वित्वनिमित्तप्रत्ययाजन्यः ॥८०।।
ज्याव्यधः क्डिति ।४।१।८१
ज्याव्यधोः सस्वगन्तरथा किति डिति बृत् स्यात् । जोयात् जिनाति । विध्यात् । विध्यति ॥८१॥ प्रत्यय इति विशेष्यं क्ङिति च विशेषणम् अतः धातुनिमित्तयोर्ययासंख्यं न भवति । जीयाद्-आशी:क्यात्, बुद् 'दीर्घमवोऽन्त्यम्' ।४।१।१०३। व्यधंच ताडने ॥१॥
व्यचोऽनसि ।४।१।१२। व्यचेः सस्वरान्तस्था अस्वर्जे विडति वृत् स्यात् । विचति । अनसीति किम् ? उरुव्यचाः ॥८२॥ व्यचत् व्याजीकरणे। उरु विचतीति 'अस्' । उणादि० ६५२ इत्युणादिसत्रेण अस 'अभ्वादेरत्वसः सौ ११४।४६। इति दीर्घत्वग । 'कूटादे० ।४।३।११७। इति कुटादित्वात् डित्वम् ॥८२॥