________________
(८९)
$ 1 }
अघोषे परे शिजवर्जस्य घटः प्रथमः स्यात् । वाक्पूता । अशिट इति
किम् ? पयस्सु ॥५०॥
वाक्पूता- 'चजः कंगम्' (२०११८१ । इति 'चस्य कः 'धुरस्तृतीयः | २|१|७६ | इति कस्य गकारः । अनेन प्रथमः कः पूयते स्मेति पूतांवाचा पूनां वाक्पूता । पयस्सु, अत्र न सकारस्यै प्रथमः शिड्रू धुवात् । यद्यपि पयस्वित्यत्र 'शष से शषस वर्ष ५।१।३३६ । इति विधानबलादपि प्रथ मता न स्यादिति किमशिट इत्युपादानेनेति चेन्न रच्योततीत्यादी शकारस्य चकारे परे प्रथमतापत्तिः स्यादिति शिड्वर्जनम् । एवं अस्ति, आस्ते इत्यादौ सकारस्यासन्न तकारः, विसर्गस्यापि कस्यादिरिति व्याख्यया 'अपञ्चमान्न स्थो ० ' | १|१|११| इति घुट्संज्ञया च 'अवर्णहकवर्ग्याः कण्ठ्याः इति विसर्ग-RSS सन्नः ककारः स्यात् । शकारस्याऽऽसन्नश्चकारः, षकारस्याऽऽसन्नः टकारः, सकारस्याऽऽसन्तः तकारः अस्ति || 201
4
'विरामे वा' । १ । ३ । ५१ ।
विरामस्थस्याऽशिटो घुटः प्रथमो वा स्यात् । वाक्, वाग् ॥५१॥
विरामे - अत्र वैषयिकमधिकरणम् । वक्तीति वाच् घुटस्तृतीयः । |२| १ | ७६ । 'चजः कगम्' । २ १८६। 'विरामे वा ॥ ५१ ॥
न सन्धिः
। १ । ३ । ५२ ।
उक्तो वक्ष्यमाणश्च सन्धिविरामे न स्यात् । दधि अत्र, तद् लुनाति ।
114211
न, सन्धानं सन्धिः, कार्यिनिमित्तयोर्यदाऽतिशयित सन्निधिविवक्ष्यते तदैव सन्धि भवति, पदधातूपसर्गसमामानां नियमेनैकप्रयत्नाच्चार्यत्वान्नित्यसमुदितत्वाच्च विरामाभावान्नित्यं सन्धिभवति वाक्ये तु सन्धिः विवक्षाधनः एकप्रयत्नोच्चार्यत्वस्यानियमात् वक्तुरिच्छाधीनः । विरामविवक्षया न सन्ध: अविरामविवक्षया च सन्धिरित्यर्थः ।