________________
(८८)
ङस्य लग्वा । अदितेरयमादित्यः, आदित्यो देवताऽस्य 'अनिदम्यणपवादे.' ।६।१।१५। इति यप्रत्यय:, अलोपः, अनेनैकयलोप: । वर्णण वर्णक्रियाविस्तारगुणवचनेषु वण्यते, अत्र पञ्चमस्य णस्य सरूमो यकारो नास्तीति णलग्न भवति ॥४७॥
ध्रुटो धुटि स्वे वा।१।३। ४८। व्यञ्जनात्परस्य धुटो धुटि स्वे परे लुग्वा स्यात् । शिण्ढि, शिण्ड्ढि स्व इति किम् ? तप्र्ता, दर्ता ॥४८॥
धुटः षष्ठी शिष्ल प् विशेषणे, शिष धातोः पञ्चम्यां हो परे रुधां स्वराच्छ नोल' ।३।४।८२। इति श्नाप्रत्यये 'श्नास्त्योलु ग्' ।४।२।९०। इत्यकाग्लापे हुधुटो०।४।२।८३। इति हे धिः,'तृतीयस्तृतीय०:१।३।४९।'तवर्गस्य०' ।१।३।६०। इति प्रत्ययधस्य ढत्वम् 'म्नां धुड्वर्ग' ।१।३।३०॥ सूत्रात् णकार:, अनेन सूत्रेग विकल्पेन डकार लोपः । तृपौच प्रोतो तृचि प्रत्यये तप्र्ता-अत्र पकारस्य लोपो न भवति स्वारत्वाभावात् ॥४८॥
तृतीयरतृतीयचतुर्थे । १।३।४९।। तृतीये चतुर्थं च परे धुटस्तृतीयः स्यात् मजति, दोग्धा ॥४९॥
तृतीयः तृतीयश्च चतुर्थश्च तस्मिन् । टुमस्जोत् शुद्धो, मस्ज, वर्तमानेतिव्, 'तुदादे: शः ।३ ४१८१॥ सूत्रात् श: 'शस्य शषौ' ।।३।६१॥ इति सकारस्य शकारः, अनेन शकारस्यासन्नः तृतीयो जकारः। दुहीक क्षरणे, श्वस्तन्यां ता 'लघा रूपान्त्यस्य' ।।३।४। इत्युपान्त्यगुणः, 'भ्वादेदिर्घः' ।२।१८३। इति हस्य घ:, 'अधश्चतुर्थात्तथोधः' ।२।११७९। इति तस्य धः, 'धुटस्तृतीयः ।२।१।१६। सूत्रेण तु पदान्ते तृतीयत्वं भवति। अनेन तु अपदान्ते, वर्तमानस्य तृतीयत्वं भवतीति विशेषः ॥४९।।
अघोघे प्रथमोऽशिटः । १।३।५०।.
..