SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ (८२) ॥ ताभ्यां ततः, शिटः षष्ठी । तत्पदेन प्रथमद्वितीययोः परामर्शः । तच्शेते, तद् सि 'अनतो लुप् । १।४ । ५९ । 'अघोषे प्रथमोऽशिट: । १ । ३ । ५० । इति दस्य त्, 'तवर्गस्य श्चवर्गं ० | १|३|६० । इति तस्य च् ॥३६॥ न रात्स्वरे । १ । ३ । ३७ ॥ रापस्य शिटः स्वरे परे द्व रूपे न स्याताम् । दर्शनम् । ॥ ३७ ॥ ॥न, रात् पञ्चमी | प्रेक्षणे अतः करणे वाऽनटि दर्शनम् । 'हीर्हस्वरस्य० | १1३।३१ । इति द्वित्वे विकल्पे प्राप्ते निषेधः ||३७|| पुत्रस्याssदिन्पुत्रादिन्याक्रोशे । १ । ३ । ३८ । आदिनि पुत्रादिनि च परे पुत्रस्थस्य तस्य आकोशविषये द्व े रूपे न स्थाताम् । पुत्रादिनी त्वमसि पापे, पुत्रपुत्रादिनो भव । आकोश इति किम् ? पुत्त्रादिनी शिशुमारी, पुत्रादिनीति वा । पुत्रपुत्रादिनी नागी, पुत्रपुत्रादिनीति वा ॥ ३८ ॥ आदिन् च पुत्रादिन् आदिन्पुत्रादिन्, तस्मिन्, 'अदक् भक्षणं' अद् । अभीक्ष्णं पुनः पुनो वा पुत्रं पुत्रपुत्रं वातीति ' व्रताभीक्ष्ण्ये' ।' २।१।१५७| सूत्रेण णिन् । 'ति' | ४ | ३ |५० | सूत्रात् वृद्धिः, 'स्त्रियां नृतोऽ | २|४|१| सूत्रात् ङीः, सिः पुत्रादिनी, पुत्रपुत्रादिनी । 'नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति न्यायेन स्त्रियामुदाहृतं प्रायेण तत्रैवाक्रोशसम्भवात् । अध्यारोपेण हि निन्दा आक्रोश:, तत्त्वाख्याने त्वसौ प्रतिषेधो नास्ति 'अदीर्घाद्विरामैकव्यञ्जने' | १|३|३२| इति विकल्पेन प्राप्तेऽनेन परत्वात् प्रतिषेधः । शिशुं पुत्रं मारयतीति शिशुमारी 'कर्मणोऽण्' | ५|१|७२ | 'गौरादिभ्यो मुख्यान्ङीः ' | २ |४| १९| शिशुमारी मत्सीविशेष उच्यते । न गच्छतीति नगः 'नगादय: ।३।२।१२८ । निपातनम् नगे भवा भवे । ६ । ३ । १२३ । इत्यण् ञ्णिति | ४ | ३ |५० | 'जातेरयान्त०' ० ' | २|४|५४ | इति ङीः || ३८ ||
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy