SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ (८१) ततोऽस्याः ।१।३॥ ३४॥ ततोऽऽवर्गात्परस्या अस्या अन्तस्थाया दुरूपे वा स्याताम् । दध्यत्र, दध्यत्र ॥ ३४॥ तस्मात् ततः, अस्याः षष्ठी । तच्छन्देनाञ्वर्गस्य परामर्शः, इदंशब्देन चान्तस्थाशब्दस्य । दध्येत्यत्रानेन सूत्रेण धकारात्परस्य यस्य द्वित्वम् तथा च धकारयकारयोद्वित्वविकल्पादेकधयकारात्मकमेकं रुपम् ? द्विध द्वियघटितमेकं रुपम् २ । द्विधैकयघटितमपरं रुपम् ३ एकधद्वियघटितं चान्यत् ४ । इति सामान्यत चत्वारि रूपाणि । अस्याः । इदम् षष्ठीङस् 'आ द्वरः १२।१॥४१॥ इति मस्य अ: । 'आत्' ।२१४११८॥ इति आप्, 'आपो ङितां ये यास् यास् याम् ।१।४।१७३ सूत्रात् उसस्थाने यास् । 'अनक' २१११३६। । सूत्रेण यासः पूर्व डस् । 'डित्यन्त्यस्वरा० ।२।११११४। इत्यन्त्यस्वरादिलोपः। ॥३४॥ शिटः प्रथमद्वितीयस्य । १।३।३५ । शिटः परयोः प्रथम द्वितीययोढे ये वा स्याताम् । त्वंकरोषि । स्वं करोषि । त्वंक्खनसि, त्वं खनसि ॥ ३५॥ ॥शिटः पञ्चमी, प्रथमश्च द्वितोयश्च प्रथमद्वितीयं तस्य । 'अं अः क ) ( प शषसाः शिट् ।१।१।१३। सूत्रात् शिट्संज्ञा। त्वं करोषि. . 'तो मुमो० ॥१॥३॥१४॥ सूत्रादनुस्वारः, अत्रानुस्वाररुपशिट: परस्य कस्य द्वित्वम् । त्वं क्खनसि- अत्र द्वित्वे 'अघोषे प्रथमोऽशिट: ।१।३।५०। इति खकारस्य ककारः ॥३५॥ ततः शिटः।१।३।३६ । । ततः प्रथमद्वितोयाभ्यां परस्य शिटो दे रूपे वा स्याताम् । तम्शेते, तशेते ॥ ३६॥
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy