________________
(20)
'पदस्य' | २|१|८९ | 'संयोगस्यादी० | २|११८८ । इति वा न प्रवर्तते । दध्यत्रेत्यत्रानेन धकारस्य द्वित्वे 'तृतीयस्तृतीय० १ १ ३२४९ | सूत्राद् धस्य दत्वम् । ननु धस्य द्वित्वें कृते 'स्वरस्य परे प्राविधी | ७|४|११० सूत्रेण स्थानिवद्भावाद धस्य द्वित्वं न भविष्यतीति चेन्मैवम् 'न सन्धि | ७|४|१११ | सूत्रेण सन्धिविधी स्थानिवत्त्वनिषेधः । ननु दद्ध्यत्रेत्यत्र यकारस्य पदान्तत्वात् 'पदस्य [२२११८९ इति लोपः प्राप्नातीति चेन्न 'असिद्ध बहिरङ्गमन्तरङ्ग इति न्यायेनान्तरङ्ग यकारलोपे कर्तव्ये बहिरङ्गस्य यकारस्यासिद्धत्वात् । न च बहिरङ्गस्य यकारस्यासिद्धत्वात् द्वित्वमेव न प्राप्नोति इति वाच्यं संन्धिग्रहणेनैव स्थानिवद्भावनिषेधसिद्ध पि द्विग्रहणस्यै तन्न्यायबाधनार्थत्वात् 'न्याया: स्थविरयष्टिप्राया: । अन्वित्यधिकारात् कत्वगत्वादिषु कृतेषु पश्चाद् द्वित्वं भवति अन्यथा प्रथममनेन विकल्पेन द्वित्वे 'चजः कगम् | २|११८६ | इति कत्वे कृते पश्चात् स्तृतीयः | २|१|७६ | इति तृतीये स्वच्ग इति स्वच्क् इति अनिष्टरुपपत्तिः स्यात् । गो ३ र त्रातेति 'दूरादामंत्र्य० ७|४|११ ॥ इति प्लुतः अनेन तस्य द्वित्वम् । वृङ श् संभत्तौ व्रियते इति वर्या वर्योपसर्या ||१|३२| अनेन यप्रत्ययः । वहीं प्रापणे उह्यतेऽनेनेति वह्य शकटम् 'वह्य ं करणे | ५|१|३४| सूत्रेण यप्रत्ययः । अत्र स्वरात् परो हकारः । तनूयी विस्तारे तनोतीति 'तने उ: । ७४८ ) स च सन्वद् भवति । द्विर्वचनम् 'सन्यस्य' |४|१|५९ | सूत्रेण इत्वम् । अत्र स्वरात्परः उकारः तित उश्चालनिकेत्यर्थः । ॥३२॥
अस्वर्गस्यान्तस्थातः । १ । ३ । ३३ ।
अन्तस्थातः परस्य जवर्जवर्गस्य अनु द्व े रुपे वा स्याताम् । उत्क्का, उल्का । अञिति किम् ? हल्ञौ ।
।। नञ् अञ्, 'नञत् ३२ । १२५ । अम् चासौ वर्गश्च अञ्वर्ग: तस्य, अन्तस्थाया इति अन्तस्थात: 'आद्यादिभ्यः | ७२८४ इति तस् । 'ऐकार्थे' ||राटा इति पञ्चमीलुप् । उल्क्का, अत्र लकारात् परस्य ककारस्य द्वित्वम्ं aircare कवलधातो: 'निष्क-तरु०' उणा० २६ इति निपातः । परमते - नस्य हल्सञ्ज्ञा, हल चासौ ञश्च हल्ञी, अत्र त्रस्य द्वित्वप्रतिषेधः ||३३||