________________
(७९)
द्विर्वचनम्, ननु प्रथमनु इत्यस्य णत्वे कृते 'हदिर्ह ० ११।३३३१० सूत्रेण णस्य 'द्वित्वे 'ण' विकल्पपक्षे तु द्वित्वाभाव: । 'नामिनोऽकलिहले० ' १४३३५१७ सूत्राद् वृद्धि: । अत्र अनु इत्यस्याभावे अन्त रङ्गत्वादनेन द्वित्कृते - पश्चाद् बहिरङ्ग परोक्षानिमित्तं द्विर्वचनं स्यात् ततश्च प्रोर्णुन्नावेत्यनिष्टं रूपं स्यात्, अतः प्रथमं प्रोर्णुनावेति प्रसाध्य ततोऽनेन णस्य faraम् । नतु 'निमित्ताभावे नमित्तिकस्याध्यभावः इति न्यायात् द्वित्वं निवत्स्यति कृतमनुग्रहणेनेति चेन्मैवमयमेवानुग्रहणं 'निमित्ताभावे० ' इति न्यायस्यानित्यतां दर्शयति । अथवा लोकप्रसिद्ध वास्यानित्यता- लोके कुम्भकारस्य बिनाशेपि घटस्य दर्शनात् । ननु पद्मह्रद इत्यत्र रत्व-द्वित्वे कृतेऽपि 'रो रे लुग्० |११३।४११ इति लुचि पद्मद इति भविष्यतीति न किङिचद् विनष्टमिति चेत्सत्यं ययंत्र वर्जनं न स्यात्तदोत्तरसूत्रेपि वर्जनाभावे अर्हः इत्यत्रोत्तरेण द्वित्वे आर्हः इत्यनिष्टं रूपं स्यात् । ननु कर इत्यत्र 'लुगस्थान | २१११११३ इत्यनेव रस्य लुग्भविष्यति कि स्वरवर्जनेनेति चेत्सत्यं चारु, दारु वारि इत्यादी चारू दारू वारी इत्याद्यनिष्टं रूपं स्यात् । अर्च्यते स्तूयते इति अंक : न्यं कूद |४| १|११२ ॥ सूत्रेण न्यङ क्वादित्वात्ककारः । ॥३१॥
अदीर्घाद् विरामैकव्यञ्जने । १ । ३ । ३२ ।
दीर्घास्वरात्परस्यरहस्वरवर्जस्य वर्णस्य विरामे असंयुक्तव्यञ्जने च परेऽनु द्वे रुपे वा स्याताम् । त्वक्क्, स्वक्, बद्धध्यक्ष, दध्यत्र, गो ३ त्रात, गो ३ त्रात अर्हस्वरस्येत्येव ? वर्मा, बहू, पं, तितज
॥ ३२ ॥
॥ न दीर्घः अदीर्घः तस्मात् एक च तद् व्यजनं च विरामश्च एव व्यंजन च तस्निन् । अदीर्घादिति पर्युदासादनुवृतस्य स्वरस्य विशेषणम् । त्वक्कति अनेन द्वित्वम्, पुनश्चानेन एकव्यजने परे यावत्सम्भव: तावद्विधिरिति न्यायात् द्वित्वं न भवति किञ्चित्फलाभावात् अन्यथाऽनवस्थादोषप्रसङ्गात् क्रियानुपरमप्रसङ्गादित्यर्थः । अन्यत्र द्वित्वस्य चरितार्थत्वेपि 'व्यक्ति: पदार्थ:' इति न्यायेन अर्हस्वरमात्रस्य द्वित्वविधानसामर्थ्यात्