________________
... (८३)
म्नां छुड्वर्ग नव्योऽपदान्ते ।१।३।३९ । अपदान्तस्थानां मनानां धुटि वगै परे निमित्तस्यैवान्त्योऽनु स्यात् गन्ता, शङ्किता, कम्पिता । धुडिति किम् ? आहन्महे । धुड्वर्ग इति किम् ? गम्यते । अपदान्त इति किम् ? भवान करोति ॥३९॥
- म् च न च म्नः तेषाम्, धुट् चासौ वर्गश्च, तस्मिन् , अन्ते भवोऽत्य: 'दिगादिदेहांशाद्यः' ।६।३।१२४। सूत्राद् यः । गच्छतीति गन्ता 'आसन्न.' ७।४।१२०। सूत्रेण मकारस्य पञ्चमो नकारः । तृच्, शकुङ, शङ्कायाम् शङकिता, कपुङ, चलने कम्पिता 'स्ताद्य०।४।४।३२। इतीट् 'आङो यमहन० ।३।३।८६। सूत्रेणात्मनेपदे । आहन्महे, अत्र मकारस्य वर्गत्वेपि धुटत्वाभावान्न नकारस्य पञ्चमः मकारः । गम्यते इत्यत्र तु यकारस्य धुत्वेपि धुड्वर्गत्वाभावान्न मस्य स्थाने यस्यान्त्यो रः । 'क्यः शिति' ।३।४।७०। म्नामिति बहुवचनं वर्णान्तरबाधनार्थ तेन कुर्वन्ति, कृषन्तीत्यादौ 'रवर्णान्नो० ।२।३।६३। इति णत्वं बाधित्वाऽनेन वर्गान्त्य एव भवति, शङ्कितेत्यादी 'अदीर्घा० ॥१॥३॥३२॥ इत्यादिभिद्वित्वादिकार्यान्तराणि न भवन्ति । धुड्वर्गे इत्यत्र बर्गग्रहणं व्यवस्थार्थम् वर्गग्रहणाभावे तु गन्तेत्यादौ तकारापेक्षया थकारस्यापि अन्त्यत्वात् ‘गल्ता' इत्याद्यनिष्टं स्यात् । अन्वित्यस्यानुवृत्तिस्तेन विपूद् िअङ्ग्धातोर्तुमि व्यङक्तुमित्यादौ 'चजः कगम् ।२।११८६। इति गत्वे कृते पश्चात् 'अघोषे प्रथमोऽशिट: ।१।३।५०। इति कत्वे कृतेऽनेन निमित्तस्यान्यौ डकार कृतः अन्यथा अन्तरङ्गत्वापूर्व प्रकारे कृतेऽनिष्टयपत्तिः स्यात्ः ॥३९॥
शिट्हेऽनुस्वारः।१।३।४० । अपदान्तस्थानां म्नां शिटि हे च परेऽनुस्वारोऽनु स्यात् । पुसि, वंशः, वहणम् ॥ ४० ॥
॥ शिट् च हश्च शिड्हं तस्मिन्, 'धुटस्तृतीयः ।२।१।७६। सूत्रात् टस्य डत्वम् । पुम्स् इ, अत्रानेन सूत्रेण शिटि परे मकारस्यानुस्वारः, दंश