________________
(७१)
यनासम्भवात् यथा पात्रे आनीयते तथाऽत्र ड्नोः केवलयोरुच्चारणासंभवादुच्चारणं स्वरेण सह कृतम् । स्च्युत, क्षरणे स्च्यु तेर्दन्त्यसकारोपदेशत्वात् श्चवर्जनात् 'सकारापदिष्ट कार्य तदादेशस्य शकारस्यापीति न्यायं ज्ञापयति अन्यथा सस्वप्राप्तिरेव नास्तीति तर्जनं व्यर्थ स्यात् । षष् जस् 'उतिष्णः सङ्घयाया लुप् ।११४१५४॥ सूत्रेण जस्लोपः, 'धुटस्तृतीयः ।२।११७६। सूत्रात् षस्य डः । सीदन्ति "श्रौनिकृवु०' ।४२।१०८। इत्यनेन । सूत्रे इन इति कर. णात् टत्वं न भवति "अघोषे प्रथमोऽशिट: १३५०1 सूत्रात् । पाणिनीये तु भवति । सादेशाभावे तु डस्य टो भवति । रच्योतति-'सस्य शषौ ।।३।६१। सूत्रात् शकारः । ननु 'त्स' इत्यत्र सकारविधानस्य निष्प्रयोजनत्वमिति चेत्सत्यं सस्य सविधानं तदवयवप्रतिपत्त्यर्थः । तदवयवप्रतिपतिश्च सकारा. नुवादं विनाऽशक्यं प्रकारान्तरेण गौरवापत्तेश्च । 'तवर्गस्थ०' ११।३१६०। सूत्रात् डात्परस्य तकारस्य न टकार: ‘पदान्ताट्टवर्गात्' ।११३३६३। इति निषेधात् ।
-
'नः शिञ्च् । १।३। १९ ।
पदान्तस्थस्य नस्य शे परे ञ्च वा स्यात, अश्चः । भवाञ्छूरः, भवाञ्चशूरः । अश्च इत्येव ? भवाश्योतति ॥१९॥
. नः षष्ठी । अश्च इति पदं सप्तम्यन्ततया विपरिणय्यानुवर्तमीयम, तच्च शीत्यस्य विशेषणम् । श्चघटकभिन्ने शकारे इत्यर्थः । उचादेशविधानसामर्थ्यात् चस्य कस्वं 'पदस्य' ।२।११८९॥ इति च न भवति । 'घुटो धुटि स्वे वा' ।१।३।४८॥ इति तु भवत्येव, तेन भवाञ्छूर इत्यपि भवति । भवान् शूर: 'प्रथमादधुटि शश्छः ।१।३।४। 'तवर्गस्य० ॥१॥३॥६०। सूत्रण नस्य
। राजा. शेते इत्यत्र तु अन्यत्र लब्धावकाशयोः शास्त्रयोयुगपत्प्राप्तौ पर. त्वात् 'नाम्नो नोऽनह नः' ।२।११९१॥ इत्यनेन न लोपो भवति ।
अतोऽति रोरु।।१।३ । २० ।
आत्परस्य पदान्तस्थस्य रोरति परे उनित्यं स्यात् । कोऽर्थः ॥२०॥
॥ अतः पञ्चमी । सूत्रेषु सामान्येन प्रथमं कार्यो, ततो निमित्तं तत!