________________
(७२)
कार्यमिति निर्देशक्रमः अत्र तु कार्यिणः पूर्व निमित्तोपादानेन निर्देशातिक्रमः नवेत्यधिकारनिवृत्ति सूचयति । किम् स्, किमः कादेशः सकारस्य 'सो रु :' |२१|१२|कर + अर्थ: 'रोर्यः | १ | ३ | २६ | सूत्र बाधित्वानेन रोरुत्वम्' रोर्य:' : । १।३।२६। इत्यस्यापवादत्वात् 'सर्वत्रापि विशेषेण सामान्य बाध्यते 'ब्राह्मकौडिन्यन्यायेन । क उ अर्थ: अवर्णस्ये० | १२|६| सूत्रादोकार : 'एदोत: ० ' |१| २|२७| इति अकारलोपः ननु । सन्निपातलक्षणां विधिरनिमित्तं तद्विघातस्येति न्यायात् क + उ + अर्थ इति जाते 'अवर्णस्ये० | १२|६| सूत्र नव प्रवर्तते ति चेन्न 'अतोऽति० | १।३ २० । इति न्यायस्यात्र प्रवृत्तेः । नच क + उ + अर्थ इत्यत्र 'इर्णादेः' | १|२| २१ | इति वकारः प्राप्नोति कथमोकार इति वाच्यमन्तरङ्ग बहिरङ्गात्' । इति न्यायेनैकपदाश्रितत्वेनान्तरण कार्य पूर्व भवति इति कोऽर्थः इति सिद्धम् । 'अतोऽति' | १३ | २० | इति निर्देशात् सानुबन्धस्य रोरेव ग्रहणम् तेन तरु अयनम् इत्यत्र न भवति एतत्सूत्रानुवृत्तरो: 'अवर्णभोभगोso ' |१| ३| २२ | सूत्रे पदान्तेऽसम्भवात् सानुबन्धस्य रोग्र हणम् । सानुबन्धग्रहणात् न निरनुबन्धस्य' इति न्यायात् प्रातर् + अत्र इत्यत्र न रस्य
उकारः ।
t
घोषवति । १ । ३ । २१ ।
आपस्य पदान्तस्थस्य रोर्घोषवति परे उः स्यात् । धर्मो जेता । ॥ २१ ॥
॥ घोषोऽस्यास्तीति घोषवत् तस्मिन् अघोष पक्षेयाऽतिशायिघोषक्तवात् । अघोषे तु 'अनुदरा कन्येति न्यायात् घोषाभावः । निमित्तान्तस्योपादानात्पूर्वसूत्रात् 'अति' इति नानुवर्तते । ननु पूर्वसूत्र एवं घोषग्रहणं कर्तव्यमर्थस्य समानत्वात् किं पृथग्योगेनेति चेत्सत्यं पृथग्योगो हि 'घोषवति' इत्यस्यैवोत्तरानुवृत्त्यर्थमन्यथा एकयोगनिर्दिष्टत्वात् अतीत्यप्पनुवर्तेत । ननु धर्मो जेतेत्यादि स्थले 'अवर्णभोभगोधो० ' | १|३|२२| इति घोषवति' | १|३|२१| इत्युभयप्राप्ती लुगेव स्यादिति चेन्मैवं लुचः प्रवर्तने घोषवति | १ | ३ | २१ | सूत्रं निरवकाशं स्यात् 'निखकाशं सावकाशादू बलवद् इति न्यायेनापरादत्वादुत्वमेव भवति । न च अवर्णग्रहणादकारं प्रति लोपस्यापि निरवकाशत्वमिति वाच्यमवणं ग्रहणस्योत्तरार्थत्वात् । जयती जेता 'णकतृचौ | ५ | ११४८ | सूत्रात् तृच् ।