________________
-
• ॥मश्च नश्च यश्च वश्च लश्च मनयवला: । मनयवला: परे यस्मात् हकारात् स मनयवलपरः तस्मिन् । हकारस्य स्वौ नास्तीति हकारव्यवहितम नयवलानामपेक्षया स्वोऽनुनासिको भवन् मकारादिरूपेण भवतीत्यर्थः ननु 'मनयवले हे' इत्युक्तावपि मपरेभ्यो हकारः तस्मिन् इत्याद्यर्थलाभे कि परग्रहणेने त चेन्मैवं परग्रहणाभावे विनिगमकाभावेन एकतरपक्षपातिप्रमाणाभावेन हकारपरे योग इत्याद्यर्थलाभे किं नह्यति, कि याहि किं वहसि, कि लिह्यते इत्यादावेतत्सूत्रप्रवृत्तिः स्यात् न तु किं ालयतीत्यादौ । न चाकारादिना व्यवधानादत्र न भविष्यतीति वाच्य 'येन नाव्यवधानं तेनं०' इति न्यायाद् भविष्यति, न च प्रथमपक्षे कि मलयतीत्यादौ सूत्रस्य चरितार्थत्वाद् व्यवधानाश्रयणं न युक्तमिति वाच्यं येन प्रतिपादकेन हकारपरे मकारादावित्येषसूत्रार्थः स्वोकृतस्तं प्रति पक्षान्तरस्याभावात तस्माद विपर्ययप्रतीतिनिराकरणार्थ परग्रहणं कर्तव्यमेव । न च विपर्यय प्रतीतो हि वचनस्य वंयर्थ्यमेव स्यात्, 'तो मुमो व्यञ्जने स्त्रौ ।१।३।१४। इत्येव रूपद्वयस्य सिद्धत्वात्, सत्यम-तर्हि नियमार्थमेतत् स्यात् ततो मकासदी हकारपरे एव स्यात् नान्यत्र, ततश्च स्वं मन्यसे' इत्यादौ पूर्वेणापि न स्यादिति परग्रहणम् । मस्य पदान्ते वर्तमानस्येति व्याप्त्यर्थम् यावताभदान्तेऽपि म्वागमे पूर्वसूत्रोपात्तानुवृत्ते लकारस्य सानुनामिकत्वेऽ झोक्रियमाणे जंझलंयंते, जम्मल यते, जब हवल्यते, जंह वलेयते 'इत्याद्यपि भवति । ह्रङ क अपनयने ह्रते, ह्य इति अव्ययम् । हवलाल चलने ह वलति मलति कश्चित्तमन्यः प्रयुङ्क प्रयोक्त व्यापारे णिग्' ।३।४।२०। णिति ।४।३।५०। वृद्धिः । 'ज्वलह वलमल० ।४।३।२२। इति ह्रस्व: । ह्रादैङ, सुखे च ह लादयते ।
सम्राट् । १।३।१६।
समो मस्य राजौ क्विबन्तेनुस्वाराभावः स्यात् । सम्राट्, समाजौ । ॥१६॥
- ॥ सम्-राजग दीप्ती, सम्यगराजते शोभते इति सम्राट. क्विप् 'यजसृजमृजराजभ्राज०।२।११८७। इति षः, 'धुटस्तृतीय:' ।२६११७६। इति ड् 'विरामे वा' ।१।३।२१। ट् । रेफस्य स्वत्वाभावादनुनासिकप्राप्तिरेव नास्ती