________________
(६८)
प्राप्नुतः तथापि तौग्रहणमवधारणार्थम् । अनुस्वारानुमासिकावेत भवतः न तु लुक् पूर्वस्यानुस्वारानुनासिको चेति । एतदभिप्रायेणैव तावनुस्वारानुनासि कावि युक्तम् । अन्यथा अनन्तरोक्ता लुग् अनुवर्तत पूर्वस्य चेति ततश्च मुमोलुंग भवति पूर्वस्य चानुस्वारः, चंक्रम्यते इत्यादी पूर्वस्याकारादेः स्थानेऽनु नासिककरणे चङ्कम्यते इत्यनिष्टमापद्येत । म् ग्रहणेनैव सिद्ध मुग्रहणमपदान्तार्थमत एव मस्यैव पदान्तस्थस्येति विशेषणम् । स्वेत्यनुनासिकस्य विशेष - णम्, नाऽनुस्वारस्यासम्भवात्, अनुनासिकस्तु स्वोऽस्वोपि भवत्यतः सम्भवि - ' त्वाद् व्यभि वारित्वाच्च तस्यैव विशेषणं स्वः । स्वावित्यु भयोद्विवचनेन निर्देशेऽपि 'सम्भवे व्यभिचारे च विशेषणमर्थवदिति न्यायेनानु सिकस्यैव विशेषणम्, इदमेव द्विवचनमेतन्न्यायस्य ज्ञापकम् । ननु तच्छन्दस्य पूर्वपरामशित्वात् सकारलुचोरेव ग्रहणं कथं न भवतीति चेत्सत्यं सकारलुचोः स्वत्वासंभवात् अनुनासिकस्य च सम्भवादनुनासिकस्यैव ग्रहणं द्विवचनबलेन तत्सन्नियोगशिष्टा नुस्वारस्य च ग्रहणम् । क्रमू पादविक्षेपे भृशं पुनः पुनः वा क्रामति 'व्यञ्जनादेरेकस्वरा० |३|४|९| सूत्राद् यङ । 'सन्यङश्च' | ४|१|३| अनेन द्विः, क्रक्रम् 'व्यञ्जनस्थानादेर्लु' क्' | ४|१| ४४ | अनेन द्विरुक्तः व्यञ्जने आद्यं व्यञ्जनं स्थाप्यते, शेषं सर्वं लुप्यते । 'कश्चन | |४|११४६॥ अनेन कस्य चत्वम् । 'मुरतोऽनुनासिकस्य' | ४|१| ५१ | द्विरुक्तमध्ये मुरागमः तेत अनुस्वारानुनासिको भृशं पुनःपुनर्वा वमतीति । कम् सुखं ज्ञानं जलं वाऽस्यास्तीति 'कंशम्यां०' ७|२| १८| इत्यनेन वः । रंरग्यते इत्यादी स्वग्रहणादनुस्वार एव भवति । स्वग्रहणाभावेऽनुनासिकानुस्वारविधानेत्र निमित्तप्रत्यासत्त्या णकारादिर्भवेत् । 'ऋवरषाः मूर्धन्याः' |
णकारादिवारणार्थं स्वविधानम् । न च रेफोष्मणां रेफोष्माणस्तु स्वा भवन्त्येव तदा रेफोष्माण एव कुर्यादिति वाच्यं तेषामनुनासिकत्वाभावात् ।
मनयलवपरे हे । ३ । ३ । १५ ।
मनयवलपरे हे पदान्तस्थस्य मस्यानुस्वारानुनासिको स्वोकमात्रयाताम् । कालयति किम्ालयति । कि ह, नुते, किह, नुते किह्यः, किया, किलयति, किंव्लयति, किह्लादयते, किं ह्लादयते ।
।
॥ १५ ॥