________________
(६७)
"
- शिटः । ४ । १ । ४५ इति शिटो लोपे पुनः स्सट् 'यं विधिं प्रत्युपदेशोनर्थक इति न्यायान्न भवति । अत्र किञ्चित् - ननु "स्थानीवावणौ ” |७|४|१०८ । न्यायात् स्थानिवद्भावात् संचस्कार इत्यत्र द्विरुक्त र्व्यवधानाभावात् समः सकारो भविष्यतीति चेन्मैवं अवर्ण विधौ स्थानिवद्भावनिषेधात् न च नायं वर्णविधिः डिति वर्ण समुदायाश्रयणादिति वाच्यं स्सट् इति सकारादिः स्सट्इति कृते वर्णविधित्वात् ।
लुक । १ । ३ । १३ ।
समः स्सटि परे लुक् स्यात् सस्कर्ता ॥
1
लुञ्चधातो: ' कुत्संपदादिभ्यः | ५ | ३|११४ | इति क्विपि नलोपे च लुक् । ननु पूर्वसूत्रं 'स्सटि समो लुक् च एतादृशं क्रियतां किं पृथगारम्भेन ? नचैव करणे लुक्पक्षेपि अनुस्वारानुनासिकयोरपि निवृत्तिरिति चेन्मैवमनुस्वारानुनासिकौ हि कार्य सन्नियोगशिष्टी लुचोऽपि कार्यत्वात् तत्पक्षेऽप्यनुस्वारानुनासिको स्वातामतस्तदभावार्थं पृथग्योगारम्भ । पृथक्सूत्रकरणादनुस्वारानुनासिको च पूर्वस्य' इति निवृत्तम ।
तौ मुमो व्यञ्जने स्वौ । १ । ३ । १४ ।
मोर्वागमस्य पदान्तस्थस्य च मस्य, व्यञ्जने परे तस्यैय स्वौ, तावनुस्वारानुनासिको क्रमेण स्याताम् । चंक्रम्यते, चङ कम्यते । भ्यते, वैव्वम्यते । त्वं करोषि त्वङ्करोषि कंवः, कॅव्वः ।
7
॥ तौ, मुश्च स् च मुम् तस्य । मुमयोरनुस्वारानुनासिकाभ्यां समसंख्यत्वेपि वचननिर्देशेन समत्वाभावान्न यथासङ्ख्य मन्त्रयः, ताविति द्विवचनम्, मुम इति चैकवचनम् । अत्र तच्छब्देनानुस्वारानुनासिकयोः परामर्शः । पद्यपि स्वौ इत्वेवोक्तावपि विशेष्यरूपतयाऽधिकारतो बुद्धिस्थावनुस्वारानुनासिको