________________
अनेन सुच् ‘अप्रयोगीत्' ।१।१।३७। सूत्रेण स् । सिः'अव्ययस्य'।३।२।७।'सो रुः' ।।१।७२। 'र: पदान्ते० ।१।३।५३। इति विसर्गः । कान् 'वीप्सायाम्'
७।४।८०। इत्येन कान् इति द्विरुच्यते कान् कान् । 'षष्ठयान्त्यस्य' ।७।४।१०६। इत्यन्त्यस्यादेशो भवति । नन्वनुस्वारस्य पदत्वात् 'पदस्य' ।२।११८९। इति लोपः स्यादिति चेन्न "गौणमुख्ययोमख्ये कार्यसम्प्रत्ययः' इति न्यायात् अत्र लोपो न भवति अनुस्वारस्य सामर्थ्य प्रापितत्वेन गौणत्वात् । कान्कानित्यत्र एकः प्रश्नेऽन्यस्तु क्षेपे । ननु सकारस्य 'सो रुः' ।।२।१।७२। इति रुत्वं कथं ने भवति इति चेदत्रोच्यते रस्याधिकारेणैव सिद्ध सविधानं रुत्वबाधनार्थम् ।
स्सटि समः। १।३ । १२।
समः स्सटि परे सः स्यात्, अनुस्वारानुनासिकौ च पूर्वस्य । संस्स्कर्ता, सँस्स्कर्ता । स्सटीति किम् ? संकृतिः। ,
.. सकारेणोपलक्षितः सट् स्सट् तस्मिन्, समित्युपसर्ग एव ग्राह्यः न तु षम वैक्लव्ये क्विबन्तस्सम् 'संस्कृते भक्ष्ये' ।६।२।१४०। इति प्रयोगात् । संस्करोतीति संस्स्कर्ता ‘णकतृचौ' ।५।१।४८। 'नामिनो० ॥४॥३॥१॥ इति गुणः, 'संपरेः कृगः स्सट्' ।४।४।९१। इति कृग आदिः स्सट् । तदनन्तरं 'स्सटि समः' ।१।३।१२। इत्यनेन मकारस्य सकारः पूर्वस्यानुस्वारानुनासिकौ च । अनुस्वारस्य पञ्जनत्वात्, 'धुटो धुटि स्वे वा' ।१।३।४८। इति सकारलोपे एकसकारं पक्षेदिसकारं संस्कर्ता, संस्स्कर्तेति रुपद्वयम् । संकृतिः- कृधातुः सम्पूर्वः । संस्क्रियादित्याशास्यमान इत्याशीविषये 'तिक्कृतौ नाम्नि' ।५।१।७१। अनेन तिक्प्रत्ययः । संस्करणं वा संकृति अत्र 'संपरेः कृगः०' ।४।४।९१। सूत्रेण स्सट् तु न भवति गर्गादिषु सकाररहितस्य पाठात् । 'गर्गादेर्यत्र' ।६।१।४२। सूत्रे गर्गादिगणः । सञ्चस्कारेत्यत्र समः सः कथं न भवति।। व्यवधानात् । ननुतर्हि पूर्वमेव सकारः क्रियताम् ? तदपि न, यतः परत्वात् नित्यत्वात् धातुमात्राश्रयत्वेन, अन्तरङ्गत्वाच्च प्रथममेव णव । ननु तहि सम्+कृग् इत्येतयोः व्यवधानात् स्सट: निवृत्तिर्य विष्पति निमित्ताभावे नैमित्तिकस्याप्यभाव 'इति न्यायात, नैवम स्वाङ्गमव्यवधायि' इति न्यायेन आगमस्याव्यवधायकत्वात् । संचस्कार इत्यत्र पूर्वं स्सट् पश्चात् परोक्षाणव् सम् स्कृ स्व इति स्थिते 'अघोषे