________________
(६३)
mature
रुपेणासन्देहाथं चछटठतथेति सूत्रं कर्तुं शक्यं तथापि 'यथासङख्यमनुदेशः समानाम्' इति यथासङ्खयार्थ मेष निर्देश: अन्यथा निमित्तबहुत्वे यथासंख्यं न स्यात् । न च सद्वितीय ग्रहणे सति यत्र चकाराकान्तश्छकारः, टकाराकान्तष्ठकार:, तकाराकान्तस्थकार तत्रैव कार्य प्राप्नोतीति नाशङ क्यम-'उदश्चरः साप्यात् ।३३३३३११ 'चरेष्ट:' ।।१।१३८। 'व्रीह्यादिभ्यस्तौ' ।७।२१५॥ इव्यादि. ज्ञापकात केवलेष्वेव भवतीति । चर भक्षणे च, चरतीति चर: छदण् अपवारणे, छाद्यतेस्म-छन्न: णौ दान्तशान्तपूर्णः" ।४।४।७४। इति छन्न इति निपातनम् । कष्ट:-ट: ध्वनौ, कष्ठः-ठः ध्वनी कस्तः-तः तस्करे, कस्थ:-थः पर्वते।
नोऽप्रशानोऽनुस्वारानुनासिकौ च पूर्वस्याधुपरे ।१।३।८। पदान्तस्थस्य प्रशान्वर्जशब्दसम्बन्धिनो नस्य चटतेषु सद्वितीयेषु अधुटपरेषु शषसा यथासंख्यं स्युः, अनुस्वारानुनासिको चागमादेशौ पूर्वस्य क्रमणे स्याताम् । भवांश्चरः, भवाँश्चरः । भवाश्छ्यति, भवांश्छ्यति । भवाष्टङ्कः, भवाष्टङ्कः, । भवांष्ठकारः, भवाष्ठकारः । भवांस्तनु, भवांस्तनुः । भवांस्थुडति भवास्थुडमि । अप्रशानिति किम् ? प्रशान्चरः । अधुट्पर इति किम् ? भगवानसरुकः ॥८॥
॥नः षष्ठी, 'शमू दमू उपशमे च' शम् । प्र। प्रशाम्यतीति प्रशान् 'क्विप्' ।५।१।१४।। 'अहन्पञ्चमस्थ०।४।१।१०५। इति दीर्घः, मो नो श्वश्च' ।२।११६७। इति. मस्य न । न धुट अधुट । अधुट्परो यस्मात चढतात सोऽधुट्परस्तस्मिन् इति । धुट्पगे यस्मादिति कृत्वा पश्चान्ना योगो न कार्यः तथा सति प्रसज्यशङ्कया वर्णाभावेपि भवाम् त् इत्यादावादेशस्यात् । परं न धुट अधुट अधुट्परो यस्मादिति विग्रहः कार्यः । अनुस्वार आगम अननासिकश्चादेश उच्यते। 'मित्रवदागमाः, शत्रुवदादेशा: । आगमः मित्रमिव सह वर्तते, आदेशस्तु शत्रुवद पूर्वस्य स्थाने तमुन्मूल्य वर्तते । भांक दोप्तो'