________________
(६४)
'भातीति भातेर्डवतु' भवत् सि:, 'ऋदुदितः | १|४|७० । इत्यनेन त् उपरि न् न्त् । 'अभ्वादेरत्वस: सौ | १|४|८०| इति दीर्घः, दीर्घङ या ० | १ |४| ४५ | इति सेर्लोपः, ‘पदस्य' ।२।१।८९ । इति लुक् । प्रशाञ्चर इत्यत्र 'तवर्गस्य श्चवर्ग ० |१|३|६० | सूत्रेण । अधुटीत्युक्त्तौ चटते परतो योऽधुट् तस्मिन्परे नकारस्यैते भवन्तीति विपरीतार्थवारणाय अधुट्पर इत्युक्तम् । अत्र लक्षणप्रतिपदोक्तयोरिति न्यायात् नकारो लाक्षणिको न गृह्यते तेन त्वन् तत्र इत्यादी नस्य सो न भवति । अयं नकारो 'तो मुमी० ' | १| ३ | १४ | इत्यनेनानुनासिकशब्देन सामान्येन विहितत्वात् लाक्षणिकः । भवानित्यादौ तु नकारो नोन्त इत्यनेन नामग्राहं विहितत्वात् प्रतिपदोक्तः ||८||
पुमोsशिट्यघोषेऽख्यानि रः । १।३।९।
'म्' इति पुंसः संयोगलुक्यनुकरणम्, अधुट्परे अघोषे शिट्खयागिवर्जे परे 'पुम्' इत्येतस्य रः स्यात्, अनुस्वारानुनासिकौ च पूर्वस्य । पुंस्कामा पुस्कामा | अशिटीति किम् ? पुं शिरः । अघोषे इति किम् ? पुरंदासः । अख्यागीति किम् ? पुंख्यातः । अधुट्पर इत्येव क्षारः ॥ ९ ॥
॥ पुमः षष्ठी पुमिति पुंसः संयोगान्तलोपस्यानुकरणम् । कमूङ कान्तौ 'कमेणिङ' | ३|४|२| 'णिति' | ४ | ३ |५० | इति वृद्धिः पुमांस कामयते इत्येवंशीला पुरस्कामा 'शीलिकामिभक्ष्या० | ५ | १|७३ । इति, अणपवादो णः, 'णेरनिटि | ४ | ३ |८३ | र्लोपः, 'आत्' | २|४| १८ | इत्याप्, 'पदस्य' | २|१|८९ । पुम्सः सलोपः, अनेन मः रः पूर्वस्य चानुस्वारानुनासिको । 'र: कखपफयो: ०' | २|३|५| इति प्राप्तौ पुस्' इति, रस्य सः । पांक् रक्षणे पाति पुरुषार्थमिति पुमान् 'पातेडुम्सु (१००२) 'पुम्स्', पुसः शिरः पुंशिरः, सलोपः शिड्ढेनुस्वारः | १| ३ | ४० । इति । पुंसो दास: 'पदस्य' । २११९८ । इति सलोपः । ख्याग्वजेनात् ख्यां धातोः पुख्यातः । पुंख्यात भवत्येव । पुंसः क्षारः 'वा ज्वलादि ०|५|१|६२ | सूत्रात् णः, अत्र घुट्परत्वाद् न रः ।
"