________________
(६२)
णादत्र- क )( पादेशौ भवतः । क: करोतीत्यादि 'किम: कस्तसादौ च ।२।१।४०'सो रुः ।२।१।७२॥ इति खनूग विदारणे, डुपची पाके,फल निष्पत्री
॥५॥
शषसे शषसं वा।१।३।६।
पदान्तस्थस्य रस्य शषसेषु परेषु यथासंख्यं शषसा वा स्युः । करशेते, कःशेते । कष्षण्ढः, कः षण्ढः । कस्साधुः, कः साधुः ॥६॥
शश्च षश्च सश्च शषसं तस्मिन् वा ॥ र: इति वर्तते । नवाधिकारे वाग्रहणमुत्तरत्र विकल्पनिवृत्त्यर्थम् । ननु शषसे सो वा इत्येवं सूल्यता सकारस्य च 'सस्य शषौ" ॥१॥३॥६१॥ इति कृते कश्शेते, कष्षण्ढः इत्यादौ शकारषकारौ सिध्यतः एवमुत्तरत्रापि 'कश्चरः, इत्यादी शषो सेत्स्यत इत्युत्तरार्थमित्यपि न वक्तव्यम्, तथा कश्शेते इत्यादौ 'धुटस्तृतीयः ।२।११७६। इत्यस्मिन्कर्तव्ये रुत्वस्य, 'अन्तश्शेते' इत्यादौ 'असिद्धं बहिरङ्गमन्तरङ' इति न्यायेन शत्वस्यासिद्धत्वे तृतीयत्वमपि न प्रवस्य॑ति, तत् कि शषयो: पृथविधानेनेति चेत्सत्यम-'असिद्ध बहिरङ्गमन्तरङ्ग इति न्यायस्यानित्यत्वज्ञापनार्थम् किञ्च शषसग्रहणं व्यक्त्यर्थम् तेनैतेषु कृतेष्वेतद्विलक्षणं कार्यान्तरं न भवति, ततश्चान्तश्शेते इत्यादी 'धुटस्तृतीयः' ।२।१७६। इति जत्वादिकं न भवति, कश्शेते इत्यादौ तु तृतीयाभावः रो: परेऽसत्त्वादपि सिध्यतीति । कथ 'तहि सपिष्षु' इत्यादी षकार: ? सत्यम्-शषसविलक्षणं तृतीयत्वादिकं न भवति, शषसरुपं तु भवत्येवेति दिक् ॥६॥
चटते सद्वितीये।१।३।७।
पदान्तस्य रस्य चटतेषु सद्वितोयेषु परेषु यथासङख्यं शषसा नित्यं स्युः । कश्चरः, कश्छन्नः, कष्टः, कष्ठः । कस्तः कस्थः ॥७॥
॥ चश्च टश्च तश्च चटतं तस्मिन् सह द्वितीयेन वर्तते यः स सद्वितीयस्तस्मिन् । 'सहस्य सोऽन्यार्थे' ।३।२।१४३। सूत्रात्सहस्य सः । नन्वत्र स्व.