________________
(६१)
॥ प्रथमात्, न घुट् अघुट् तस्मिन् शः षष्ठी, छः प्रथमा, पदान्ते इति वर्तते एवमग्रपि । ननु पूर्वसूत्रेण तत इत्यनुवृत्त्या वाचा शूरः, वाच् शूरः 'घुटस्तृतीयः' | २|१|७६ । चजः कगम्' |२| ११८६ | इति वाग् शूरः इति जाते पदान्ततृतीयात् गकारात्परस्य शस्य छकारे कृते 'अघोषे प्रथमोऽ०' | १|३|५०१. इति स्य करे वाक् छू इति सिद्धौ किं प्रथमादित्यभिधानेनेति चेन्मैवं 'तृतीयाच्छे कृते ततस्तृतीयस्य प्रथमत्वाभावप्रसङ्गात् यथा षट् सीदन्तीत्यत्र 'डुणः सः त्सोश्चः । १।३।१८। इति त्से कृते षड्त्सीदन्तीति जाते पुनः डकारस्य प्रथमों न भवति विधानसामर्थ्यात् तथा च वाक् छूर इति न सिध्येदतः प्रथमादित्युक्तम् । पाणिनीयास्तु षट्त्सीदन्तीति प्रथममिच्छन्ति । अथवा. प्राक् छेते, सुगण्ट् छेते इत्यादी तृतीयात्परस्य शस्याभावाच्छादेशो न भवति । वाक्श्च्योततीत्यत्र तु प्रथमात्परस्य शकारस्य सत्त्वेपि ततः परमधुट् नास्तीत्यतो न छकारः । अधुटीति पर्युदासात् स्वरान्तस्थाऽनुनासिकपरः यस्मात् तस्य शस्य छो भवति तेन वाक्श् इत्यत्र छो न भवति || ४ ||
1
रः
कखपफंयोः ← क )( पौ । १ । ३ । ५ ।
पदान्तस्थस्य रस्य कखे पफे च परे यथासंख्यं
) ( पौवा स्याताम् । ककरोति, कः करोति । कखनति कःखनति क ) ( पचति कः पचति । क ) ( फलति कः फलति ।
,
२ः, कश्च खश्च कखम् पश्च फश्च पफम्, कखं च पर्फ च कखपफे, तयो:, - कश्च ) ( पश्च क ) ( पौ, द्वयोर्द्वयोर्द्वन्द्व विधाय पुनर्द्वन्द्वकरणाद् यथासङ् ख्यलाभ: । अत एव वृत्तौ कखे पफे इत्युक्तम् । - क ) ( पे-यत्र ककारपकाराकारा उच्चारणार्थः । अत्र - क इति जिह, वामूलीय, ) ( प इति उपध्मानीयः ननु निरनुबन्धग्रहणे न सानुबंधकस्य इति न्यायेन तिरनुबन्धस्य ग्रहर्णेन सानुबन्धस्य रो: क ) ( पौ न भविष्यत: तथा सति करोतीत्यादि न सिध्येदिति चेत्सत्यं 'र: पदान्ते विसर्गस्तयोः ' इति निरनुबन्धग्रहणे तस्यैवानुवृत्त्या 'अरा: सुपि रः ||३|५७ | अत्र सानुबन्धस्य रा रत्वाप्राप्तावरोरिति स्वर्जनाभिधान व्यर्थ सज्ज्ञापयति 'निरनुबन्धग्रहणे सामान्यग्रहणमिति न्यायमस्ति ततश्च सामान्यस्य रकारस्य ग्रह