________________
(६०)
॥ प्रतीयते ऽर्थोनेन स प्रत्ययस्तस्मिन् च। पदान्ते अनुनासिक इत्यनुवर्तते । चकार: पूर्वयोगस्यैव णेषतां प्रतिपादयन्नात्मनि वेत्यस्य सम्बधाभावं वानुवृत्तेश्चोत्तरत्राव्यवधानं सूचयति । वाचां विकारोऽवयवो वा 'एकस्वरात् ।६।२।४८। इति मयट् । वाच आमतम् 'नृहेतुम्यो रुप्यमयटौ। १६।३।१५६। इति वा मयट । षष् आम् 'संख्यानां र्णाम् ।१।४३३। 'घुटस्त. तीयः ।२।११७६। तवर्गस्य०११।३।६०। इति नस्य णःषणाम्, अनेन डस्य णः । 'अनाम्नगरीनवतेः' इति पर्यु दासान्न टवनिषेधः । असदधिकारोऽप्यत्र वर्तते । तेन तन्नयनमित्यादी न लोपो न भवति ।
ततो हश्चतुर्थः।१।३।३। पदान्तस्थात् ततः तृतीयात्परस्य हस्य पूर्वसवर्गश्चतुर्थो वा स्यात् । वाग्धीनः, वाग्होनः । ककुब्भासः, ककुब्हासः॥
॥ ततः ॥ तस्मात् हः षष्ठी, चतुर्णा पूरण: चतुर्थः । पदान्त इति वर्तते, तच्छब्दस्य पूर्वपरामशित्वात् तच्छब्देन तृतीयस्य परामर्शः । ननु 'तृतीयस्य' इत्यनुवृत्तौ 'अर्थवशाद विभक्तिविपरिणामः' न्यायेन पञ्चम्यन्तखेन परिणमनसम्भवेपि तत इति ग्रहणं कथमिति चेदत्रोच्यते-'तृतीयस्य इत्यनुवृत्तौ हकारात्परस्य तृतीयस्येति शङ्का स्यादतः ततो ग्रहणम । न च पदान्तस्य हकारस्यासम्भवः 'घुटस्तृतीय: ।२।११७६३ इति प्रवर्तनादिति वाच्यं भूतपूर्वन्यायेन सम्भवात् । ननु हस्य कठ्यतया तस्यासन्नो घकार एक भविष्यति न झढधमा इति हेत: हो घ: 'इत्येव सूल्यतां कि गुरुतरचतुर्थशब्दग्रहणेनेति चेन्न 'चतुर्थ' इति गुरुत्तरग्रहणेन पूर्ववर्गस्य चतुर्थो भवति इत्यर्थलाभः । वाचा हीन:, वाग्धीनः, विकल्पपक्षे वाम्हीनः । कुभां हासः ककुछभासः, विकल्पपक्षे ककुब्हासः । हसनं हासः घञ् ।
प्रथमादधुटि शश्छः ।१।३। ४ । पदान्तस्थात् प्रथमात्परस्य शस्याधुटि परे छो वा स्यात् । वाकछूरः, वाक्शूरः । त्रिष्टुप्छ तप, त्रिष्टुप्श्रुतम् । अधुटीति किम् ? वापरच्योतति ।