________________
तृतीयः पादः
तृतीयस्य पञ्चमे। १।३।१। वेति, पदान्त इति, अनुनासिक इति चानुवर्तते । वर्गतृतीयस्य पदान्तस्थस्य, पञ्चमे परे अनुनासिको वा स्यात् । वाङ डवते, वाग्डवते, ककुम्मण्डलम् ककुमण्डलम् ॥१॥
त्रयाणां पूरणस्तृतीयः, तस्य, पञ्चानां पूरणः पञ्चमः, तस्मिन्, “सौ नवेतौ' ।१।२।३८। सूत्रात् वेति ‘एदोतः० ।१।२।२७। सूत्रात् पदान्त इति 'अइ उवर्णस्यान्तेऽनुनासिकोऽनोदादे:'।१।२।४२। सूत्रात् अनुनासिक इति एते पादान्तरस्थिता अपि 'अपेक्षातोऽधिकार' इति न्यायेन पादान्तरस्थिता अपि अनुवर्तन्ते । तृतीयत्वस्य वर्गघटकवर्णमात्रवृत्तित्वे आचार्यामिप्रायादाहवर्गतृतीयस्येति । ननु तृतीयस्य इति कथं कृतं 'वर्गस्य' इति करणेऽपि काप्यापत्तिर्न दृश्यते इति चेत्सत्यं 'ततीयस्य' इत्युत्तरार्थम अन्यथा प्राङ हसतीति न सिध्येत्, प्राङ धसतीत्यापद्येत स तु नेष्ट: । वाच+ङवते सेर्लोपः, चस्य - ककार: 'धुटस्तृतीय: ।२।१।७६। सूत्रात् ककारस्य तृतीय: तृतीयस्यानेनानुनानिकादेशः । ननु ककुभां दिशां मण्डलम् 'धुटस्तृतीयः'। ।२।१।७६। इति बत्वेनेनानुनासिकत्वे 'तौ मुमौ० ॥१।३।१४। इत्यनुस्वारः कथ न भवतीति नाशङ्कनीयम् 'अञ्वर्गात्स्वरे० ।१२।४०। सूत्रादसन्नित्यधिकारस्य प्रयोजनवशादिष्टत्वात् अथवा 'असिद्ध बहिरङ्गमन्तरङ्ग' इति न्यायात् मस्य बहिरङ्गस्यान्तरङ्ग ऽनुस्वारे कर्तव्येऽसिद्धत्वात् । यत्त घटस्ततीयः । १७६ इति विहितस्य तृतीयस्य बस्यासत्त्वेन तत्स्थानस्य मस्यापि असत्त्वान्न भवति तत्तुच्छ म् परविधेः स्यादिविधेश्चाभावात् ॥१॥
प्रत्यये च।१।३२।
पदान्तस्थस्य तृतीयस्य प्रत्यये पञ्चमे परेऽनुनासिको नित्यं स्यात.. वाङ्मयम्, षण्णाम् । 'च' उत्तरत्र वा अनुवृत्त्यर्थः ॥२॥