________________
(५८)
॥ अश्च इश्च उश्च अ - इ - ऊनां वर्णः तस्य, अन्ते, अनु पश्चान्नासिकास्थानमुच्चारणीयं यस्यासावनुनासिकः, ईत् आदिर्यस्य स ईदादिः, न ईदादिरनोदादिस्तस्य । देशदेशिनोः कथञ्चिद् भेदाद्देशग्रहणे देशिनोऽपि ग्रहणादत्र ईद्' इत्येकदेशग्रहणेन 'ईदूदेद्विवचनम्'।१।२।३४। इति सूत्रं प्रगृह्याह न चेदेते इत्यादि । अनीदादेरित्यत्रादिशब्देन 'अदो मुमी' ।१।२॥३५॥ सूत्रादारभ्य 'अत्र वर्गात्स्वरे वोऽसन्' ।१।२।४०। सूत्रषट्कस्य ग्रहणे प्रसक्तेपि 'ओदन्त:' ।१।२।३७। 'सो नवेतौ ।१।२।३८। सूत्रद्वय न गृह्यते तत्राइउवर्णाभावेन प्रकृतानुपयोगित्वात् । अनोदादेरित्यत्र विषयविषयिभावसम्बन्धे 'शेषे' ।।२८१। सूत्रात् षष्ठी। अनीदादेरित्यत्र प्रसज्यवृत्तिनत्र । सामन् सात्वनमित्यर्थः, 'अनतो लुप् ।१।४।५८। 'नाम्नो नोऽनह न:' ।२।११९१। इति नकारलोपेऽनेन विकल्पेनानुनासिकत्वम् । एवं खट वादिष्वपि । अग्निशब्दस्य प्रथमाया द्वितीयाया वा द्विवचने 'ईदू देत् ।१।२।३४। सूत्रविषय ईकारः । अदस्शब्दस्य प्रथमाबहुवचने 'अदोमुमी' ।।१।२॥३५॥ सूत्रविषय .. ईकारः। किम् + उ +इति अत्र उकार: इतिशब्दे परे ॐ चोज ।।२।३८ सूत्रविषय उकारः, इतिवजिते स्वरे परे 'अञ्वर्गात् ॥१॥२४०। सूत्रविषयः । अस्य वैकल्पिकत्वादेतदभावपक्षे 'चादिः स्वरोऽनाङ १।२।३६। सूत्रविषयः एषु ईददिसम्बन्धित्वान्नानेनानुनासिकः । 'एदोत:०' ।१२।८७। सूत्रात्पदान्ते इत्यस्यानुवृत्तिसम्भवेप्यन्त ग्रहणं किमर्थमिति चेत्सत्यमन्तग्रहण विरामग्रहणं विरामप्रतिपत्त्यर्थम् स च विरामे भवन् पदस्यान्ते भवति। केवलमुपसर्गस्य समासान्ततिनश्च न भवति । तेन राजपुरुष इत्यत्र राजशब्दस्थान्त्याकारस्यानुनासिक आदेशो न भवति। वर्णान्तरप्रतियोगिकप्रागभावानंधिकरणकालोऽन्तशब्दवाच्य:,विरामशब्दवाच्य इति यावत् । केचित्त समुदायघटकोपान्त्यवर्णप्रतियोगिकध्वंसाधिकरणकाल: अन्तशब्दार्थ इति कथयन्ति तन्नचारु राजपुरुषसमुदायघटक राजशब्दान्त्याकारस्यापि विरामत्वप्रसङ्गात् । "अइउवर्ण०" ।१।२।४१॥ इति सूत्रे अविकृतस्वरूपलाभाय सन्ध्यभावः समासे सति नित्यसन्धिः स्यात् । 'द्वन्द्वान्ले०' इति न्यायात्प्रत्येकं वर्णशब्दस्य सम्बन्धः ।।४१॥