________________
(५७)
-
1
सन् न सन् असन्, ऊँञ इत्यनुवर्तते । ननु 'असन्' इत्यस्य स्वरूपेणाभाव इत्यर्थः तथा सति कि वकारविधानेनेति चेत्सत्यमसन्नित्यस्य मुख्यार्ष परित्यागेन गौणः असिचवत् अभूतवदित्यर्थः कर्तव्यः तथा सति वैयर्थ्याशङ्का नैव तिष्टति, तथा च स्थान्याश्रयं कार्यं सिद्ध भवति । अन - वर्गादित्यत्र जात्यपेक्षयेकवचनेन निर्देशेपि स्पष्टप्रतिपत्तये व्यक्त्यपेक्षणादाह - जवर्जवर्गेभ्य इति । 'पञ्चको वर्गः | १|१|१२| इतिपत्र व समुदायस्य वर्गत्वेपि युगपत्समुदायासम्भवात् प्रत्येकं वर्गशब्देन वर्ग्यः प्रतीयते । 'स्वरे वाइन' || २|२३| सूत्रात् धाराप्रवाहम्यायेन, मण्डुकप्लुतिभ्यायेन वाऽनुवृत्तिसम्भवेपि 'स्वरे' इति पुनः कथनमुत्तरानुवृत्त्यभावार्थम् । कुञ्च मतो कौटिल्याल्पीभावयोश्च' क्रुञ्चतीति क्विपि 'युजञ्च चोनोड: 1२1१1७१ ॥ सूत्रे विवयन्तस्यापि क्रुञ्च् इति निर्देशात् 'नो व्यञ्जनस्यानुदितः । ४ २ ४५१ सूत्रात् लोपाभावे ऋञ्च् + सि इति स्थिते सिलोपे 'पदस्य' |२| ११८९१ इति चकार लोपे निमित्ताभावे नैमित्तिकस्याप्यभाव:' इति पुनः नकारसद्भावे 'युजञ्चक्रुञ्चो नो ङ.' ।२।१।३१॥ सूत्रात् ङकारे क्रुङ, इति कुटिलं गन्ता क्रौञ्चपक्षी वेत्यर्थः । आते उपविशतीत्यथः । उ इति सम्बोधने । कोपबचने अनुकम्पाविस्मयनियोगेषु च । क्रु, उ आस्ते अनेन उकारस्य वकारे कृतेऽप्यसत्त्वात् 'हस्वाद् ङगन' द्व े ।१।३१२७ । सूत्रात् ङकारस्य द्वित्वम् । नन्वसद्भावमन्तरेणापि क्रुङ उ आस्ते इत्यवस्थायां प्रथमं द्वित्वे कृते, पश्चाद वत्वे ऋङ ड्वास्ने इति सिध्यति किमनेनासद्भावनेतिचेन्न. 'हस्व न्ङ जनो द्व े |१| ३ |२७| इति सूत्रं यद्यपि परं तथापि वत्वस्य कृतेऽकृतेऽपि च भावात् नित्यत्वेन 'पगन्नित्यम्' इति न्यायेन द्वित्व बाधत्वा वत्त्वस्य भावात् पश्चात्स्वराभावेन द्वित्वं न स्यादतोऽसद्भावः कृतः । असन्निति पदमुत्तरसूत्रं मुक्त्वा 'तृतीयस्य पञ्चमे ' |१|३|१| 'प्रत्यये च' | १|३|२| इति सूत्रयोः सम्बध्यते 'अपेक्षातकार' इति न्यायात् ॥ ४० ॥
'
}
अइउवर्णस्यान्तेऽनुनासिको नीद देः । १।२।४१।
अ इ उ वर्णानामन्ते विरामेनुनासिको वा स्यात् न चेदेते 'ईदृद्धिवचनम्' इत्यादि सूत्रसम्बन्धिनः स्युः । सामँ, साम, खाँ, खट्वा, दधिं दधि । कुमारी कुमारी मधे मधु । 'अनीदादेरिति किम् ? अग्नी, अमी, किमु ॥
,