________________
(५६)
सौ 'ह्रस्वस्य गुणः ।१।४।४१। सूत्रादोकारे पटो ! इति अनेनासन्धिः 'ओदौतोऽवाव ।१।२।२४। इत्यवादेशाभावः वैकल्पिकत्वात अवादेशोपि 'स्वरे वां ।१।३।२४। पट इत्यपि। वेत्येव सिद्धौ नवेति ग्रहणमुत्तरत्रानुबत्त्यर्थम् । त्रिसूत्रेषु तु अनुवृत्तिनवा इत्यस्य दृश्यते एव ॥३८॥
ऊँ चोञ् । १।२।३९ । उञ् चादिरितो परेऽसन्धिर्वा श्यात् । असन्धौ च उञ् ॐ इति दीर्घोऽनुनासिको वा श्यात् । उ इति, ॐ इति, विति ॥ ३९॥
ॐ सूत्रत्वाद्विभक्तिलोप: । चउ । चादिः, इतौनवेत्यनुवर्तन्ते । पक्षे ओदौतोऽवाव् ११३०२४। उन शब्दो भत्सनार्थकः । ननु नो त्रिकरणं किमर्थमिति चेत्सत्यं जिकरणं स्वरुपपरिग्रहार्थम् तेन विकृतस्य त्रितो न भवति । अयं भावः द्वावुकारी निरनुबन्ध: सानुबन्धश्चः । तत्र यो निरनुबन्धस्तस्याहो इत्यत्रौकारादेश: इष्यते नापरस्य, अतोऽहो इत्यत्राजित एव कृतादेशत्वादिदं सूत्रं न प्रवर्तते । अत एव जान्वस्य रुजतीत्यत्रोत्तरसूत्रेण वत्वं भवति, उजा सह जानोरुकारस्य दीर्धीभूतत्वात्, अथवाऽत्र सूत्रे उकारप्रश्लेषात् उ उ ऊ इत्युकारेण उनो विशेषणात् उकाररुपस्य उमओ ग्रहणात् अहो इत्यादौ न भवति उत्तरत्र तु जात्याश्रयणात् दीर्धीभूतस्यापि जान्वस्य रुजतीत्यादौ वत्वं भवति । न च ऊँ इत्येव चादिषु पठ्यता किमादेशेनेति वाच्यं, तथा सति तस्यानितावपि प्रयोग: स्यात् स तु नेष्ट इति, यथा अह+उ, अत्र 'अवर्णस्ये० ॥१२।६। इत्यनेनोत्वे अहो, पश्चादोदन्त इत्यसन्धौ अहो इति । उ इति असन्धौ ॐ इति दीर्घानुनासिकाभ्यां विति च असन्ध्यभावे इति त्रैरुप्यम् ॥३९॥
-
अन्वर्गात् स्वरे वोऽसन् । १।२।४०। अवर्जवर्गेभ्यः परः उञ् स्वरे परे वो वा स्यात्, स चासन् । . क्रुङ ङवास्ते, क्रुङ ङ आस्ते । असत्त्वाद् द्वित्वः ॥ ४० ॥
॥ न अञ् चासौ वर्गश्च, तस्मात्, स्वरे, वः, अस्तीति