________________
दुरीभवेत्यर्थः । 'अ' पूरणभर्त्सनाऽऽमन्त्रण निषेधार्थकश्चादिः । इ इति चादिगणपठितमव्ययं सम्बोधने विस्म येवा इ इन्द्रपश्य-इन्द्रदर्शनेन विस्मितस्सनयमीन्द्रदर्शनाय अनेन वाक्येन प्रेरयति । उ इति चादिगणपठितमव्ययं जुगुप्सासन्ताप न्वर्थाप्यर्थेषु । कस्यचित्सामीप्येन संतप्न: सन् निजसामीप्यान् तमपसारयन्नित्यवदत् । आ एवं किल मन्यसे-पूर्वप्रकान्तस्थ वाक्यार्थस्यान्यथात्वद्योतकमा इत्यत्ययम् पूर्वमित्थ नाऽमस्था:, इदानीं त्वेवं मन्यसे इत्यर्थः, वृद्धी प्राप्तायामसन्धिः । आ एवं नु तत्, विस्मतस्य स्मरणद्योतकोऽयमाकार:, उभयत्राकारः आङ भिन्नः।
. ईषदर्थे क्रियायोगे, मर्यादाभिविधौ च यः ।
एतमासं ङितं विद्यात्, वाक्यस्मरणयोरङित् ।। इत्याकारस्याङ नानाङ त्वदर्शक: श्लोकः । आ इहि एहि, अत्र आ इति अङपसर्गः, अत्र तु गुणः ॥३६॥
ओदन्तः । १।२ । ३७॥ ओदन्तश्चादिः श्वरे परेऽसन्धिः श्यात् । अहो अत्र ॥ ३७॥
॥ ओत् अन्ते यस्य स ओदन्तः । चादिः स्वरे, असन्धिरित्यनुवर्तन्ते । अहा इत्यादयो अखण्ड श्चादय इति पृथग्योगः, पूर्वसूत्रेऽनाङिति पर्युदासादेकस्वररूपचादेरेव ग्रहणस्येष्टतया बा पथग्योगः । 'एदोत: पदोन्तेस्य लुक्' ।१।२।२७। सूत्रादकारलोपे प्राप्तेऽनेनासन्धिः । अहो इति शोके धिगर्थे विषादे दयाया सम्बाधने विस्मये प्रशसायां वितर्केऽसूयायां च ॥३७॥
सौ नवेतौ।१।२।३८ । सिनिमित्त ओदन्त इतौ परे सन्धिर्वा स्यात् । पटो इति, पटबिति ॥ ३८॥
- ॥ सौ सप्तमी, न वा, इतौ सप्तमी । ओदन्त असन्धि: इप्यनुवर्तते । सिश्च आमव्यविहितो ग्राह्यः अन्येन स्वरस्य व्यवधानादोकारस्यासम्भवाच्च प्राप्त्यभावात्प्रतिषेधो पर्थःस्यात् । पदुशब्दात् सम्बोधनकवचने