________________
(५४)
.
मुमीति विग्रहः, अत्रादस्शब्दस्य शब्दपरत्वेन स्वार्थानभिधायकत्वात्, अदस्शब्दनिमित्तकविधषु विप्रकृष्ट वतिज्ञातपदार्थार्थकस्यैव अदसो ग्रहणम् । मुश्च मीश्च मुमी समाहार द्वन्द्वाश्रयणे सौत्रत्व द्धस्वाभावः, इतरेतरद्वन्द्वाश्रयणे सौत्रत्वादौलोपः। अदसः अग्रे अञ्चू गतौ च अमुमञ्चतीती 'क्विप् ।५।१।१४८। सूत्राक्विप् ' स्युक्त कृता' ।३।१।४९। सूत्रात्समासः, ऐकायें 1३।२।८। 'अञ्चोऽनर्चायाम् ।४।२।४६। 'सर्वादिविश्वग्देवा.। ।२।१२२ सूत्राददस: पर: डद्रिप्रत्ययः 'डित्यन्त्यस्वरादे: ।२।१।११४। इत्यदसोऽस्लोपे. अदद्रि+अच् इति स्थिते टाप्रत्यये 'अच्च प्राग्दीर्घश्च' ।२।१।१०४। सूत्रात् 'अच्' इत्यस्य 'च्' इत्यादेशे पूर्वस्वरस्य दीर्घत्वे 'अदद्रीच आ' इति स्थिते 'वाऽद्रौ' ।२।१।४६। सूत्राद् द्वयोर्दकारयोर्मकारे 'मादुवर्णोऽनु' ।।१।४७। सूत्रादकारस्य रस्य चोत्वेऽनेनासन्धौ ‘इवर्णादेरस्वे स्वरे यवरलम् ।१।२।२१। सूत्राप्रवृत्तौ 'अमुम ईचा' इति । अमी अश्वा:-अदम् ‘जस इ' ।१।४।९। आ द्वरः ।२।११४१। लुगस्यादेत्यपदे ।२।१।११३। 'मोऽवर्णस्य'।२।१।४५॥ इति दस्य मकार: 'जस इ'।१।४।९। 'अवणे ॥११२।६। इति ए: । 'बहुष्वेरीः' ।२।११४९। इति एकारस्य ई: ॥३॥
चादिः स्वरोऽनाङ् । १।२।३६ । आङ वर्जश्चादिः स्वरः स्वरे परेऽसन्धिः स्यात् । अ अपेहि, इ इन्द्रं पश्य, उ उत्तिष्ठ, आ एवं किल मन्यसे, आ एवं नु तत् । अनाङिति किम् ? आ इहि आहि ।
॥च आदिर्यस्य स चादिः स्वरः, न आङ अनाङ्॥ स्वरे, असन्धिरिति चानुवर्तते । स्वर इत्यस्य 'चादिः' इत्यस्य विशेषणत्वे 'विशेष. णमन्तः'।७।४।१५३ सूत्रात्तदन्तलाभे स्वरान्तश्चादिरित्यर्थों भवितुमर्हति तथा सति आङ वर्जनेन आङ:स्वरान्तत्वाभावात्तद्वर्जनं विफलं स्यादत अनाङिति पर्युदासाश्रयणेन पर्युदासस्य च सदृशग्रहणरूपत्वात्, आङि भन्नाङ सदृशस्यैव स्वरस्य ग्राह्यतया न तदन्तविधिः, उत्तरसूत्रेऽन्तग्रहणेनात्र केवलस्येव . सम्मतत्वाद्वाह-आङ्ग वर्जश्चादिः स्वर इति । अ अपेहीति, अपपूर्वकाद् इंण्क गताविति धातो: पञ्चमीहिप्रत्यये गुणे च अपेहीति, अनेन चाकारेण समानानां' ।२।१। इति सन्ध्यभावः । अ इति निर्भत्सने, अ अपेहि, अपसर,