________________
(५३)
'समानानां तेन दीर्घः ।१।२।१। सूत्रात्प्राप्तसन्धिनिषेधः ॥३३॥
ईदूदेव्दिवचनम् । १।२।३४। ई ऊ ए इत्येवमन्तं द्विवचनान्तं स्वरे परेऽसन्धिः स्यात् । मुनी इह, साधू एतो, माले इमे, पचेते इति । ईदूदेदिति किम् ? वृक्षावत्र । द्विवचन मिति किम् ? कुमार्यत्र ॥ ३४॥
॥ ईच्च ॥ उच्च एच्च ईदूदेत्, द्वावौं वक्तौति द्विवचनम् । स्वरे, असन्धिरित्यनुवर्तते । 'विशेषणमन्तः ।७।४।११३। अभेदोक्तोवयवो विशेषणम् तद्विष्यस्य समुदायस्यान्त: स्यात् । तथा च द्विवचनरूपं यदीदूदेत् तदन्त: सन्धिन प्राप्नोतीत्यर्थकरणे 'उभयस्थान• इति न्यायेन माले इत्यत्रासन्धेः प्राप्तावपि पचेते इत्यादौ न स्यात्, आते इति द्विवचनस्यैतदन्तत्वेऽप्येकाररूपत्वाभावात् । ईदूदेदन्तं द्विवचनमित्युक्तौ तु पचेते इत्यत्रासन्धे:प्राप्तावपि माले इत्यादौ न भवेत, तत्र ईकारादेद्विवचनत्वेऽपि ईदन्त द्विवचनाभावादिरयुभयत्र दोषादाह-ई ऊ ए इत्येवमन्तं द्विवचनान्तमिति समुदायोऽत्र विशेष्यम् । य: समुदाय ईदू- देवन्तः, अथ च द्विवचनान्तः सन्धि न लभते इत्यर्थः तथा च माले पचेते इत्यादौ न दोषः, तादृशसमुदायस्य द्विवचनान्तत्वादीदू देवन्तत्वाच्च । मुनी इह,साधू एतो, माले इमे, पचेते इति अत्र सर्वत्रासन्धि: मन्यते जगत्तत्त्वं सस मुनिः, उत्तमक्षमादिभिस्तपोविशेषेर्भावितात्मा सानोति, सम्यग्दर्शना दिभिः परमपरं साधयति वेति उभयलोकफलं साधयति वेति साधु "कृवापा. उणा: १ इत्युण्प्रत्ययः । कुमायत्रेत्यत्र तु इवर्णादे:० ।।२।२१॥ इत्यनेन यकार: ॥३४॥
अदो मुमी ।१।२।३५।
अदसः सम्बन्धिनौ मुमी इत्येतौ स्वरे परेऽसन्धी स्याताम् । अमुमु ईचा । अमी अश्वाः ॥ ३५॥
॥ मुश्च ॥ मीश्च मुमी, अदसो मुमी अदोमुमी । न तु अमुष्य