________________
(५२)
विशेषस्तस्याभाव: । वर्णयोः प्रकृत्या स्वरूपेणावस्थितिर्भवतीत्यर्थः । गोः पदान्ते इत्यनुवर्तते । गवामग्रम्, गो अग्रम् गवामिङ्गितं चेष्टितम् स्वरे वा. ।१।२।२९। इत्यवादेशः ||३१||
प्लुतोऽनिटौ । १ । २ । ३२।
इतिवजें स्वरे परे प्लुतः सन्धिभाग्न स्यात् । देवदत्त ३ अत्र वसि । अनिताविति किम् ? सुश्लोकेति ॥ ३२ ॥
॥ प्लुतः ॥ न इति अनिति तस्मिन् । असन्धिः स्वरे इत्यनुवर्तेते । देव एनं देयादित्याशीविषये 'तिक्कृती नाम्नि | ५ | १|७१। सूत्रात् क्तः 'दूरादामन्त्र्य । ७४ ।९९ । इति प्लुतः । अत्र नु असि वितर्कार्थ नु इति अव्ययम् शोभनः श्लोकः कीर्तिर्यस्य स सुश्लोकः, तस्य सम्बोधनं, हे सुश्लोक इति, अत्र गुणः ||३२|
इ ३वा । १ । २ । ३३
इस्थानः प्लुतः स्वरे परेsसन्धिर्वा स्यात् । लुनीहि ३ इति, लुनीहोति ॥ ३३ ॥
1
॥ इ ३ ।। सूत्रत्वात्सिलोपः, वां । रे स्वरे, असन्धिः इत्यनुवर्तेते, विकल्पस्त्रेधा प्राप्तविषयको प्राप्तविषयकः, प्राप्ताप्राप्तविषयकश्च । प्राप्तविषयको यथाॠत्यारुपसगस्थ |१| २|९| इति प्राप्तस्यारादेशस्य 'नाम्नि वा' | १२|१०| इति विकल्प: अप्राप्तविषयको यथा 'वात्यसन्धिः | १२|३१ । इत्यत्र केनापि सूत्रेणाप्राप्तस्यासन्धविकल्पः प्राप्ताप्राप्तविषयकं तु इदमेव सूत्रम् 'लुतोऽनित | १|२|३२| सूत्रेण लुनीहि ३ इदमित्यादो इतिवर्जे स्वरे परे प्राप्तस्य इतो परेऽप्राप्तस्यासन्धविकल्पः । छेदनार्थकः क्रयादिधातुः 'प्रषानुज्ञा० | ५|४|२९| सूत्रात्पञ्चमीहिः, 'क्रयादेः' | ३|४|७८ | इन प्रत्यय: 'प्यादे - ह्रस्वः |४ |२| १०५ | ' क्षियाऽऽशी | ७|४|१२| इति प्लुतः, लुनीहि ३ इति । यद्वा किं मया कर्तव्यमिति पृष्टः प्राह- लुनीहि ३ इति ' विधिनिमन्त्रणा मन्त्र ||४|२८| सूत्रात्पञ्चमी' है: प्रश्नाख्याने ७/४/९७ | सूत्रात्प्लुतः अनेन