________________
(५१)
पक्षे 'ओदौतोडवाव् |१| २|२४ गोऽक्षमित्यत्राक्षशब्द एवास्ति, न च संज्ञा गंम्यते, अत: 'एदोतः. ।१।२।२७। इति लोपः । गौधेनुवृर्षभो वा । चित्रा चित्रवर्णाः गावो यस्य स चित्रगुः 'गोश्चान्ते.' | २|४| ९६ । चित्रगोरर्थः वा चित्रगवेऽयमित्यर्थे तदर्थार्थत'।३।१।७२। इति नतु चित्रगुरित्यत्र गोशब्दो नास्ति तस्मादेव नाव देशापत्तिरिति चेन्न 'एकदेशविकृतमनन्यवद्' इति न्यायाद् भविष्यति तन्निवारणार्थ मोत इव्यस्यावश्यकता । एवम् ओत इत्यस्याभावे 'अनेकवर्ण : सर्वस्व' | ७|४|१०७ । इति सम्पूर्ण गोशब्दस्यादेशः स्यादित्योत इत्यवश्यमुपादेयम् । 'चित्रगो उदकम् ' अत्र चित्रगुशब्दस्य सम्बोधने तु 'लक्षणप्रतिपदोक्तयोरिति न्यायान्न भवति । प्रसज्ये निषेधस्य प्राधान्यात् ' गवाक्षसंघात ' इत्यनिष्टरूपं न भवत्यन्यथा पर्युदासाश्रये तु गो अक्षशब्दो न अक्षसंघातशब्द इति अवादेशापत्तिः स्यात् । प्रसज्याश्रये तु गौऽक्षसघात इतीष्टं सिध्यति । प्रसज्योऽत्यन्ताभाव-, पर्यु दासोऽन्योन्याभाव इति सामान्यार्थः ||२९||
इन्द्र । १ । २ । ३० ।
गोरोतः पदान्तस्थस्य इन्द्रस्थे स्वरे परे अव इति स्यात् । गवेन्द्रः 1:11 30 11.
॥ इदु परमेश्वर्ये इन्द्र ॥ स्वरे इति वर्तते, गवामिन्द्रः गवेन्द्रः । पूर्वेण विकल्पे प्राप्ते नित्यार्थं वचनम् । अत्र 'सप्तम्या आदि' | ७|४|११४। इति परिभाषया द्वन्द्वादौ शब्दे परे इत्यर्थः तथा च इन्द्रयज्ञादिशब्दे परे एव गोरोतोऽवादेशः प्राप्नोति, न तु गवेन्द्र इत्यत्रापि, परन्तु, आद्यन्तवदेकस्मिन् इति न्यायेन गवेन्द्र इत्यत्रापि इन्द्रादित्वकल्पनादवादेशः सिध्यतिः । गोषु वृषभेषु इन्द्र इवेति 'सिंहाद्यैः पूजायाम् | ३|१|१८९ | सूत्रात्समासः । गवेन्द्रः वृषभराज इत्यर्थः ॥ ३०॥
वात्य सन्धिः । १ । २ । ३१ ।
गोरोतः पदान्तस्थस्याकारे परेऽसन्धिभावो वा स्यात् । गो अग्रम्, गवाग्रम्, गोऽग्रम् । अतीति किम् ? गवेङ्गितम् ॥ ३१ ॥
अलि सप्तमी, न सन्धिरसन्धिः सन्धिर्नाम वर्णद्वयजातो विकार