________________
(५०)
गवाक्षः । नाम्नीति किम् ? गोऽक्षाणि ॥२८॥
गोः अवयवावयविभावसम्बन्धे षष्ठी नाम्नि सप्तमी, अवः प्रथमा, अक्षे सप्तमी । एदोत इत्यस्मात् ओत:, पदान्ते इत्यनुवर्तेते, न तु एद्, असम्भवात् । 'कृत्रिमाकृत्रिमयो: कृत्रिमे' इतिन्यायात् 'अधातु० ॥१।१२७। इति कृत्रिमनाम्नो ग्रहणे प्रसक्तेपि गो अक्ष शब्दयो मत्वाव्यभिचारात 'सभवे व्यभिचारे च स्याद्विशेषणमर्थवदितिन्यायात नाम्नीत्यस्य लौकिकनाम्नीत्यर्थः . . संज्ञायामिति यावत् । एदोत: इति स्थानिपदस्य 'अर्थवशादविभक्तिविपरिणामः' इति न्यायात् षष्ठ्यन्तत्वेन परिणामः । ननु षठ्याऽन्त्यस्य ।७।४।१०६। इति सूत्रेण व सिद्धौ ‘एदोत' इत्यस्यानुवृत्त्यालमिति चेन्न'अनेकवर्णः सर्वस्य। १७।४।१०७। इति प्रवृत्तावनिष्टं स्यात्। व्याप्त्यर्थकाशौटिघातो: 'पुषिप्लुषि. उणा.७०७ इति कित्सिप्रत्थये 'यजसज.' ।२।११८७। 'षढो: क:सि ।२।११६२ इति शस्य षत्वे कत्वे च 'नाम्यन्तस्था. ।२।३।१५। इति प्रत्ययसस्य षत्वे च अक्षिशब्दो व्युत्पन्नः। अक्षिशब्दोऽक्षीवेत्यर्थे. लाक्षणिक: । गो:धेनोरक्षीव विवराकारादिना नेत्रमिवेत्युपमा । केचित्तु गवां किरणानाम्, अक्षि नेत्रमिव गवाक्षद्वारा किरणा गेहान्तर्गत वस्तु पश्यन्तीत्युपेक्षेति वदन्ति । 'अक्ष्णाऽप्राण्यङ्ग।७।३।८५। सूत्रात्समासान्तेति 'अवर्णेवर्णस्य ।७।४।६८। इतीकारले पेनेनावादेशे च गवाक्षः वातायन इत्यर्थः । अक्षशब्दस्तु व्याप्त्यर्थकाशौटिधातोः 'मावावद्य. । उणा. ५६४ इति से सिद्धः । गवामक्षाणि इन्द्रियाणि गोऽक्षाणि पूर्वसूत्रेणास्य लुक् । 'वात्यसन्धिः ।११।३१॥ इति विकल्पेनाऽसन्धौ गोअक्षाणित्यपि ॥२८॥
-
स्वरे वाऽनो ।१।२।२९ ।
गोरोतः पदान्तस्थस्य स्वरे परे अब इति वा स्यात्, स चेत्स्वरोऽक्षस्थो न स्यात् । गवाग्रम्, गोऽग्नम् । गवेशः, गवीशः । अनक्ष इति किम् ? गोऽक्षम् । ओत इति किम् ? चित्रग्वर्थः ॥ २९ ॥
॥स्वरे ॥ सप्तमी, वा, न अक्ष: अनक्षस्तस्मिन । गो: ओतः, पदान्ते, अव इति वर्तन्ते, एवमग्रोपि। गवामनगवान वैकल्पिकोवादेशः, 'वात्यसन्धिः ।।२।३१॥ इत्यसन्नी गौ अग्रमित्यपि । गवामीश: गवेश: विकल्प