________________
. (४९)
ऋतुषष्ठो, र: प्रथमा तस्मै लौकिकवैदिकशब्दसन्दर्भाय हितः तद्धितः तस्मिन् तद्धिते । यि इत्यनुवर्तते । पितरि साधु पिश्यम् 'तत्र साधौ' (७।१।१।१५। साधादर्थे यप्रत्यय: रादेशश्चानेन । डुकृग् करणे क्रियते इति कार्यम्, 'ऋवर्णव्यञ्ज ना ध्यण' ।।१।१७। 'नामिनोऽकलि०।४।३।५१ सूत्राद् वृद्धिः । यद्यप्यत्रारत्वाद् वृद्धिखे भविष्यति तद्धितग्रहणेनालमिति चेन्न तद्धितग्रहणाभावे जागृयात् इययात् इत्यादौ ऋकारस्य रत्वधारणाय तदग्रहणं सार्थकम् । न च तद्धितग्रहणाभावे ‘परिसर्या' इत्यत्रापि रत्वं प्रसज्येतेति वाच्यम् 'आस्यटि० ॥५॥३॥९७। इति क्यपोऽनुवृत्त्या सिद्ध परेः सृचरेयः । ।५।३।१०३। इति यग्रहणस्य गुणार्थत्वात् ॥२६॥
एदोतः पदान्तेऽस्य लक ।१।२।२७। एदोभ्यां पदान्तस्थाभ्यां परस्याकारस्य लुक् स्यात् । तेऽत्र, पटोऽत्र । पदान्त इति किम् ? नयनम् ॥ २७ ॥
॥ एच्च ॥ ओच्च एत् तस्मात्, पक्ष्स्यान्त: पदान्तस्तस्मिन्, अस्य, लुक् । एदोत् इत्यत्र 'प्रभूत्यन्यार्थ० ।२।२।७५॥ इति दिग्योगलक्षणा पञ्चमी दिग्योगस्य पूर्वापर साधारणत्वेऽपि 'पञ्चम्या०' ७४११०४। इति सूत्रबलात्परस्यैव भवति । तकारावुच्चारणार्थों । ननु पदान्ते' इति व्यधिकरणविशेषणम् ‘एदोत' इत्यस्याथवा'अस्य' इत्यस्येति चेत्सयम् एदोत' एव कर्तव्यमन्यथाऽनन्तरं वक्ष्यमाणः गोरोतोऽक्षे परे संज्ञायामलोपबाधनार्थमवादेशविधानं न स्यात् अपदान्तस्थत्वात् अकारलोपस्य प्राप्त्यभावाच्च । पदस्यान्तोऽवसान पदान्तः तत्रेति अधिकरणसप्तमी । अयवोरपवाद: । 'तद्' जस् “आदरः ।२।११४१। सूत्राद्दस्याकातेरे 'लुगस्या०' ।२।१।११३॥ पूर्वाकारलोपे 'जस इ.' ।१।४।९। इति । ते अत्र अनेनाकारस्य लोप: । पटु सम्बोधने "ह्रस्वस्य गुण: ।१।४।४१णींग प्रापणे ने अनम्, अत्र पदान्त त्वाभावान्नानेनाकारलोप: किन्त्वयादेशः । ।।२७।।
गोनम्न्यिवोक्षे । १।२।२८ । गोरोतः पदान्तस्थस्य अक्षे परे संज्ञायाम् अव इति स्यात् ।