________________
(४८)
किम् ? उपोयते, औयत ॥ २५ ॥
·
सप्तमी, न क्य अक्यः तस्मिन् । ओदौतोऽवावित्यनुवर्तते । अक्य इत्यत्र पयु दासनम् क्यभिने क्यसदृशे च यि इत्यन्वये सादृश्यस्य प्रत्ययत्वेन ग्रहणात् क्यभिने यि प्रत्यये इति । प्राप्ते य् इत्येतावन्मात्रस्य कस्यापि प्रत्ययस्याभावात् तस्यावयवार्थे पर्यवसानात् 'अभेदोनोक्तोऽवयवो विशेषणम् इति प्रत्ययविशेषणत्व प्राप्ते 'सप्तम्या आदिः | ७ | ४ | ११४ | सूत्रात् तदादित्वलाभः । 'एकानुब वग्रहणे न द्व्यनुबन्धकस्य' इति न्यायेनैकानुबन्धस्य क्यस्य वर्जनात् द्व्यनुबन्धके क्यनि क्यङि च अवावौ स्यातामेवेत्यत आह- गव्यतीत्यादि । गामिच्छति गव्यति 'अमाव्ययात् क्यन्' | ३ | ४ | २३ | वर्तमानातिव् शव् अनेन अव्, 'शेषात्परस्मै | ३|३|१००| गौः वृषभ इवाचरति 'वयङ । ३।४।२३। वर्तमानाते, 'इङि ० ' | ३|३| २२ | सूत्रात् । नावमिच्छति नाव्यति, नौरिवाचरति नाव्यते क्यङ । लुते लवितुं योग्यमिति लव्यम् 'य एच्चातः | ५|१|२८| नामिनो गुणो० | ४ | ३ |१| अवश्यं लूयते इति लाव्यम् ' उवर्णादावश्यके | ५|१|१९| ध्यण् 'नामिनोऽकलिहले: | ४ | ३ ५१ | नजुवतं तत्सदृशे' इति न्यायेन क्यवर्जनात् यादिप्रत्यय एव गृह्यते तेन गवां यूति: गोयूतिः, गोयानमित्यत्रावादेशो न भवति । गव्यूतिरिति त्वव्युत्पन्नः सज्ञाशब्दः उक्तं च सञ्ज्ञाशब्दास्त्वव्युत्पन्नाः, प्रकृति-प्रत्यय विभाग विकला । त्युत्पत्तिपक्षे तु पृषोदरादित्वादवादेशः । गव्यूतिः क्रोशद्वयम् । उप वेंग् तन्तुसन्ताने, वर्तमानातें ' क्यः शिति' | ३ | ४ |७०। इति क्यप्रत्ययः, 'यजादिवचे: किति' ।४१।७९ | व: उ:, दीर्घश्च्वि ० | ४ | ३ | १०८ इति दीर्घः । उप ऊयते ' अवर्णस्ये ० | १२|६| इत्योत्वम्, क्यवर्जनान्नात्राव् । अत्र धातूपसर्गकार्यस्य गुणस्य बहिरङ्गत्वेन 'य्यक्ये' इत्यवादेशे कर्तव्येऽसिद्धत्वेन नात्राव् प्राप्नोतीत्यरुचेरुदाहरणान्तरं दर्शयति औयते इति । वेंग् तन्तुसन्ताने 'आत्सन्ध्यक्षरस्य' | ४|२| १ | इत्यात्वे ह्यस्तनीतप्रत्ययः 'क्यः शिति ।३।४.७०। 'यजादिवचे:' । ४|१|७९ |' 'स्वरादेस्तासु' | ११२.१२ । इति वृद्धिः ।
।।२५।।
ऋतो रस्तद्धिते ।१।२।२६।
ऋकारस्य यादौ तद्धिते परे रः स्यात् । पित्यम् । तद्धित इति किम् ? कार्यम् ॥२६॥