________________
( २१३ )
एते कृतपूर्वपवमोऽन्ता निपात्यन्ते । लोकम्पृणः । मध्यन्दिनम् । अनभ्यासमित्यः ॥ ११३॥
लोकम्पूण इति लोकस्य पृणतीति 'कर्मणोऽण्' | ५|१|७२ । इत्यणोऽभावोऽपि निपातनाद् 'मूलविभुजादयः | ५|१| १४४ | इति पाठकल्पनाद्वा । अथवा लोकस्य पृणः इति विग्रहे- 'नाम्युपान्त्य ० ' | ५|१|५४ | इति कः । निपातनादेव समासः मान्तत्वं च पूर्वपदस्य । मध्यं दिनस्य मध्यं च तत् दिनं चेतिमध्यं - दिनम् | अश्नोतेर्घत्रि अभ्याश इति रूपम्, न अभ्याशः अनभ्याशः दूरमित्यर्थः इत्यं गन्तव्यमित्यर्थः, अनभ्याशं दूरमित्यंगन्तत्यं यस्य सोऽनभ्याशमित्यः, दूरतः परिहर्तव्यः इत्यर्थः । अत्रानभ्याशमिति क्रियाविशेषणत्वेन द्वितीयैकवचनान्तं क्लीबम् अन्यथा थमैकवचनान्तस्य घञन्तत्वेन पुंस्त्वं स्यात् 'अनभ्याशेनेत्यः अनभ्यामित्यः इति वा हेतुतृतीया । दूरेण प्राप्यो न त्वन्तिकेनेत्यर्थः ।।११३।
भ्राष्ट्रग्नेरन्धे | ३ |२| ११४॥
आभ्यामिन्धे उत्तरपदे मोहन्तः स्यात् । भ्राष्ट्रमिन्धः । अग्निमिन्धः ॥ ११४ ॥
भ्राष्ट्रमधे दीपयतीति 'कर्मणोऽण' | ५ | १|७२ | इत्यण् । अग्निमिन्धे-इति अग्निमिन्धः ||११४ ||
अगलागिलगिलगिलयोः । ३ । २ । ११५ |
गिलान्तवर्णात् पूर्वपदात्परे गिले गिलगिले चोत्तरपदे मोऽन्तः स्यात् । तिमिङ्गिलः । तिमिङ्गिलगिलः । अगिलादिति किम् । तिमिङ्गिलगिलः ।। ११५ ॥
तिमि गिलतीति - तिमिङ्गिलः । तिमिशब्दो मत्स्यपर्यायः, तं गिलतीति मूलविभूजादि पाठकल्पनात्क : 'नाम्युपान्त्य०' | ५|१|५४ | इति कस्तु 'कर्मणी