________________
( २१२ )
स्वरान्तस्थानव्ययस्यारुषश्च खित्प्रत्ययान्ते उत्तरपदे मोडतो यथासम्भवं हस्वादेशश्च स्यात् । जंमन्यः । कालिमन्या । अरुन्तुदः । खितीति किम् ? ज्ञमानी । अनव्ययस्येति किम् ? दोषामन्यमहः ।।१११॥
--
स्वरान्तस्येति-अरु:- शब्दस्य पृथक्कथनबलात् स्वरान्तस्येति लाभः - जानातीतिज्ञः 'नाम्युपान्त्य ० ' | ५ ||५४ | इति कः, आलोपः । ज्ञमात्मानं मन्यते-शंमन्यः 'कर्तुः खश्' |५|१|११७ | इति ख, दिवादित्वात् श्यः ह्रस्वस्य स्वत एव विद्यमानत्वान्न ह्रस्वः । कालीमात्मानं मन्यते कालिमन्या, अरुर्मर्मस्थानं तुदतीति 'बहुविध्वरुस्तिलात् तुदः' | ५|१| १२४ | इति खश्, तुदादित्वात् शः, अनेन मोऽन्ते सति 'संयोगस्यादौ स्कोलु 'क' |२१|| इति सूत्रेण सलोपः । ज्ञं परं मन्यत् इति 'मन्याण्णिन् ' |५|१|११६ | इति णिन् । दोषा आत्मानं मन्यत इति दोषामन्यमहः ||१११||
सत्यागदास्तो: कारे । ३।२।११२ |
एभ्यः कारे उत्तरपदे मोऽन्तः स्यात् । सत्यङ्कारः । अगबङ्कार । अस्तुङ्कारः ॥११२ ॥
'सत्य - अगद - अस्तु' शब्दानां समाहारः, सौतत्वात्पु स्त्वम् । एभ्य इति - पूर्व सूत्र े षष्ठ्यन्ततया व्याख्यानम् अत्र तु पञ्चम्यन्ततया व्याख्यानं वैचित्र्यार्थम् । सत्यं करोति-इति 'कर्मणोऽ ण्' ।५।१।७२। इत्यण् । कृद्योगे कर्मणि षष्ठी, तदन्तस्य कारेति कृदन्तेन सह 'गतिकारक०' इति न्यायाद्विभक्त युत्पत्तेः प्रागेव समासः । अगदं नीरोगं करोतीति - अगदंकारी वैद्यः । अस्तु करोतीति - अस्तुकारः स्वीकार इत्यर्थः । अस्त्विति 'विभक्तिथमन्त०' |9||३३| इति विभक्त यन्ताभानामव्ययसं - ज्ञाविधानात्यादिविभक्तयन्ताभमव्ययमभ्युपगमे वर्तते ॥ ११२ ॥
लोकम्पूणमध्यन्दिनाऽनभ्यासमित्यम् | ३|२|११३ |