________________
( २११ )
शब्दार्थस्यानवच्छेदे विशेषस्मृति-हेतवः ॥२॥ इति प्रकरणादेरर्थविशेषनिर्णायकत्वम् ।।१०८॥
द्वयन्तरनवर्णोपसर्गादप ईप् ।३।२।१०६। द्वयन्तामवर्णान्तव|पसर्गेभ्यश्च परस्यापउत्तरपदस्य ईप् स्यात् । द्वीपम् । अन्तरीपम् । नीपम् । समीपम् । उपसर्गादिति किम् ? स्वाप: । अनवर्णेति किम् ? प्रापम् । परापम् ॥१०॥ द्विधा गता आयोऽस्मिन्निति तत् द्वीपम् । यस्य भूभागस्य द्वयोः पार्श्वयोः समुद्रादिसम्बन्धिन्यः आपः सन्ति स'द्वीपम्' इति कथ्यते, नामत्वेन नित्यसमासत्वादस्वपदविग्रहः, यद्यपि (द्वि अप) इति स्वपदे विग्रहवाक्ये प्रयुक्त एव तथापि पदान्तरस्यापि मध्ये प्रवेशादस्वपदविग्रहत्वं व्यवह्रियते । अन्तर्गता आपो यस्मिन् तद् अन्तरोपम्, निवृत्ता आपो यस्मिन् तत् नीपम्, संगता आपो यस्मिन् तत् समीपम् । सर्वत्र 'ऋक्तःपथ्यपोत्' ।७।३।७६। इत्यत्समासान्तः । शोभना आपः-स्वापः, 'धातोः पूजार्थस्वति०' ।३।११। इति सूत्रेण पूजार्थकस्य स्वते!पसर्गत्वम्, पूजार्थकत्वात 'प्रजास्वते:०' ७।३।७२। इति न समासान्तः । प्रगता आपो यस्मिंस्तत प्रापम्, परागता आपो यस्मिस्तत्-परापम् ।।१०६॥
अनोर्देशे उप ।३।२।११०॥
अनोः परस्यापोदेशेऽथे उप स्यात् । अनपोदेशः । देशइति किम् । अन्वीपं वनम् ॥११०॥ अनुगता आपो यस्मिन्-अनूपो देशः । यत्र देशे सर्वत्रापः सुलभाः स देशः, तत्र वा देशे जलपूर्णदेश एवाधिकः शुष्क स्थलमल्पं स देशः इत्यर्थः । अनुगता आपो यस्मिन् तत् अन्वीपं वनम् ॥११०॥ खित्यनव्ययाऽ रुषो मोऽन्तो ह्रस्वश्च ।३।२।१११।