________________
( २१४ )
ऽण् ।५।१।७२।इत्यनेन बाध्यते बाहुलकाद्वा तद्बाधाभाव: कल्पनीयः । गिलं गिलतीति गिलगिलः तिमीनां गिलगिलः। गिलगिलशब्दे गिलशब्दो नोत्तरपदमिति गिलगिलोपादानम् । गिलशबदस्य स्वरान्तस्य पर्युदासेन स्वरान्ताद्विधिस्तेन व्यञ्जनान्तान्न भवति-धूरं गिलतीति-गिलः । न च मागमे सति मकारस्य लोपेन रुपसिद्धिस्तु भविष्यतीति वाच्यं 'रात्सः' ।२।१।६०। इति नियमात् । अगिलादिति किमिति-तिमिगिलं गिलतीति-तिमिगिलगिलः । अगिलादिति वचनेन गिलान्तात् मान्तनिषेधः, गिलगिल इत्यत्र .. केवलात् च गिलशबदात् व्यपदेशिवडावेन मान्तनिषेधः। न चात्र तु गिलगिलेति निर्देशादेव मोऽन्तो न संभवतीति अगिलादित्यस्य गिलस्यापि निषेधार्थत्वपर्यवसानं न युक्तमिति वाच्यं साक्षाद्वचनेन प्रयोगसाधुत्वे सिद्धे निर्देशसामर्थ्यकल्पनस्यानौचित्यात्, यत्र हि नास्ति किमपि स्पष्टं गमकं तत्रैव निर्देशसामर्थ्याद्याश्रयणस्य दर्शनात् ॥११५॥
भद्रोष्णात्करणे ।३।२।११६ . आग्यां परः करणे उत्तरपदे मोऽन्तः स्यात् । भद्रं करणम् । उष्णकरणम् ।.११६॥ भद्रस्य करणम्,उष्णस्य करणम्-'कृति' ।३।११७७। इति समासः। अत्र पञ्चमीनिर्देशेन कस्य मागमोद्द श्यत्वमिति यद्यपि स्पष्टं न ज्ञायते तथापि 'करणे' इति सप्तम्यन्तपदोपादानात् सप्तम्याः पूर्वस्य'।७।४।१०५॥इति परिभाषाबलादुत्तरपदात्पूर्वस्य भद्रशब्दस्योष्णरपदस्य च तदुद्दे श्यत्वं बोध्यम् । एवं पूर्वसूत्रेऽपि विज्ञेयम् तत्रापि पञ्चमीनिर्देशस्य सत्त्वात्, 'सत्यागदास्तोः कारे' ।३।२।११२। 'भ्राष्टाग्नेरिन्धे' ।३।२।११४। इत्यादौ च षष्ठ्यन्तत्वेन व्याख्यानसंभवेऽपि पञ्चम्यन्ततया व्याख्यानं तत्राप्येषा रीतिज्ञेया। ॥११६।।
नवाखित्कृदन्ते रात्रेः ।३।१।११७। खिदर्जे कृदन्ते उत्तरपदे परे रात्रर्मोऽन्तो वा स्यात् । रात्रिञ्चरः।