________________
( २०८ )
शीर्षः स्वरे तद्धिते ।३।२।१०३। शिरसः स्वरादौ तद्धिते शिर्षः स्यात् । हास्तिशोषिः। शोषिकः । ॥१०३॥ हस्तिनः शिर इव शिरो यस्य स हस्तिशिराः तस्यापत्यं-हास्तिशीषिः 'बाह्वादिभ्यो गोत्रे' ।६।१।३३। इतीत्र । 'अवर्णेवर्णस्य' ।७।४।६८। इत्यकारस्य लोपः । शिरसा तरति-शीर्षिकः । 'नो-द्विस्वरादिकः' ।६।४।१०। इति इकः । शीर्ष शब्दः प्रकृत्यन्तरमस्ति शीर्षच्छेयं परिच्छिद्यति, अनेनैव त्र सिद्ध उक्तविषये शिरसः प्रयोगनिवृत्त्यर्थं वचनम् । शीर्षच्छेदमहतीति 'शीर्षच्छेदाद् यो वा' ।६।४।१८४। इति यः तादृशं जनं परिच्छिद्य-निश्चित्येति क्वाचित्क: प्रयोगः ॥१०३॥
उदकस्योदः पेषंधिवासवाहने ।३।२।१०४। उदकस्य पेषमादावुत्तरपदे उदः स्यात् । उदपेषं पिनष्टि । उदधिर्घटः । उदवासः । उदवाहनः ॥१०४॥ उदकेन पिनप्टि-उदपेष-पिनष्टि 'स्वस्नेहनार्थात् पुष-पिषः' ।५।४।६५। इति णम्, उदकेन पिनष्टीत्यर्थः । उदकं धीयतेऽस्मिन्निति उदधिर्घटः, वसन' वासः, भावे पत्र । उदकस्य वास:-उदवासः। उदकं वाहनमस्य-उदवाहनः । अनामाथं वचनम्, नाम्नि नाम्न्युत्तरपदस्य च' ।३२१०७। इत्युत्तरसूत्रेणैव सिद्धम् ॥१०४॥
वैकव्यञ्जने पूर्ये ।३।२।१०५॥ उदकस्यासंयुक्तव्यञ्जनादौ पूर्यमाणार्थे उत्तरपदे उदो वा स्यात् । उदकुम्भः । उदककुम्भः । । व्यञ्जनइति किम् ? उदकामत्रम् । एकेति किम् ? उदकस्थालम् । पूर्वइति किम् ? . उदकदेशः॥१०॥