________________
( २०७ )
किम् ? नासिक्यपुरम् । अवर्णइति किम् ? नासिक्यो वर्णः । ॥१०॥ नासिकाय हितं तत्र भवं वा नस्यम् 'प्राण्यङ्गरथ०' ७।१।३७। इति यः, भवार्थे च 'दिगादि०' ।६।३।१२४। इनि यः । नासिकाया अदूरभवं-नासिक्यं पुरम् । 'सुपन्ध्यादेञ्यंः' ।६।२।८४। इति ज्यः । 'निरनुबन्ध-ग्रहणे न सानुबन्धकस्य' इति न्यायादत्र भवति । नासिकायां: भवः, नासिकामभिहत्य वायुनाभिव्यञ्जितो वर्ण:-नासिक्योः वर्णः । अत्रापि भवार्थे देहांशत्वाद्यः ॥१०॥
शिरसः शीर्षन् ।३।२।१०१॥ शिरसो ये प्रत्यये शीर्षन् स्यात् । शीर्षण्यः स्वरः । शीर्षण्यं तैलम्। यइत्येव ? शिरस्तः । शिरस्यति ॥१०१॥ शिरसि भवःशीर्षण्यःस्वरः,शिरसे हितं-शीर्षण्यं तैलम् देहांशत्वाद्यः शीर्ष
नादेशे सति, नोऽपदस्य तद्धिते'।७।४।६१।इत्यन्यस्वरादिलुकि प्राप्ते'अनोऽटये ये' ।७।४।५१। इति निषेधः । शिरस्त: इति-पञ्चम्यन्तात् 'अहीय
होऽपादाने' ७।२।८८। इति तस् । 'निरनुबन्धग्रहणे न सानुबन्धकस्य' इति न्यायात् शिर इच्छति-शिरस्यति,अत्रापि न भवति । अत्र शिरस इत्यस्यादेशेन सम्बन्धः न तु प्रत्ययेन, तेन हास्तिशीषिरित्यादौ समाससंबन्धिन्यपि तद्धिते 'शीर्षः स्वरे' ।३।२।१०३। इति शीर्षादेशो भवति ॥१०१॥
केशे वा ।३।२।१०२॥ शिरसः केशविषये ये प्रत्यये शोषन् वा स्यात् । शीर्षण्याः, शिरस्याः केशाः ॥१०॥ शिरसि भवाः, शीर्षण्याः केशाः देहांशत्वाद्यः ।।१०२।।