________________
( २०६
।
उंदकुम्भ इति-उदकस्य कुम्भ इति सम्बन्धषष्ठया, उदकेन पूरणीयः कुम्भ इति पूरणार्थ वृत्तावन्तर्भाव्य करणतृतीयान्तेन वा समासः । अमत्रं पात्रम् विशालपात्रं स्थालशब्देनोच्यते । स्थालशब्दः स्त्रीलिङ्गः नपुंसकलिङ्गश्च स्थाली, स्थालम् । लोके अन्नपात्रे नपुंसकं प्रयुज्यते, पाकपात्रे च स्त्रीलिङ्गम् तथोदकपात्रऽ पि क्वचिन्नपुंसकत्वं प्रयुज्यत इत्य-स्मात्प्रयोगादवगम्यते । उदकदेश इति-उदकबहुलो देशः इत्यर्थः नात्र देशशब्दः पूरयितव्यवाचीत्यत्र न भवत्यु-दादेशः ॥१०॥
मन्यौदनसक्त -बिन्दु वज्रभारहारवीवधगाहे वा ।३।२।१०६॥
एषत्तरपदेषु उदकस्योदो वा स्यात् । उदमन्थः । उदकमन्थः । उदौदनः । उदकौदनः । उदसक्तः । उदकसक्तः । उदबिन्दुः उदक बिन्दुः । उदवजः । उदकवजः । उदभारः । उदकभारः । उदहारः। उदकहारः । उदवीवधः । उदकवीवधः । उदगाहः । उदकगाहः ॥१०६॥ उदमन्य इति-द्रवद्रव्यसंस्कृताः सक्तवो मन्थ इत्युच्यते । उदकेन मन्थ इति तृतीयासमासः यद्वा उदकेन मथ्यते इति कर्मणि घत्रि 'कारकं कृता' ।३।१।६८। इति समासः । उदौदन इति-उदकेनोपसिक्त ओदनः इति विग्रहः, उपसेक-क्रियायाश्च वृत्तावन्तर्भावात् तदद्वारा उदकेन सहोदनस्य सामर्थ्यम् । मयूरव्यंसकादेराकृतिगणत्वात् समासः । उदसक्त रिति-उदकेनोपसिक्तः सक्त रिति विग्रहे उपसेकक्रियाद्वारोदकेन सह सामर्थ्यम् । उदविन्दुरिति-षष्ठीसमासः । उदवज्रः इति-उदकस्य वज्रः इति विग्रहः ।
उदकसंभूतो मण्यादिजातीयः पदार्थः, वज्रत्वेन प्रसिद्धो वा मेघसम्भतोऽ'. शनिः । उदकस्य भार:-उदभारः । उदकं हरति स उदहारः 'कर्मणोऽ ण्'
।५।३।१४। इत्यण् । विवध्यते-वीवधः 'न जनबधः' ।४।३।५४। इति घनि वृद्ध रभावः । घत्रि उपसर्ग-दीर्घत्वे वीवधः । वीवधशब्द: पथिभारे वर्तते । उदकाहरणार्थः पथिभार इति तदर्थः । गाहो गाहनम्-उदकस्य गाहः