________________
(४६)
इवर्णादीमस्वे स्वरे परे ह्रस्वो वा स्यात् । न चेत्तौ निमित्तनिमिमित्तिनावेकत्र पवे स्याताम् । नदि एषा-नद्यषा । मधु अत्रमध्वत्र । अपद इति किम् ? नद्यौ, नद्यर्थः । २२।
हस्वः ॥ न पदं अपदं तस्मिन् वा । इवर्णादेरस्वे स्वरे इत्यनुवर्त. न्ते । नदी एषा, अनेन ह्रस्वत्वम्, पक्षे यत्वम् । यद्यपि एकारैकारयोस्ता लव्यत्वादिवर्णस्य अस्वस्वरपरत्वं नास्तीति ह्रस्वयत्वे न स्याताम् . तथापि 'एदेत': कण्ठतालु, ओदौतो: कण्ठोष्ठमिति मतान्तरमाश्रित्य ते विज्ञेये । मधु अत्र ह्रस्वस्यापि ह्रस्वः, ननु ह्रस्वस्य ह्रस्वकरण न युक्त 'नहि भुक्तवान्पुनभुङ क्ते' भोजनविशेषात्तु तत्र प्रवृत्तिर्दश्यतेऽत्र ह्रस्वस्य ह्रस्वकरणे का हेतुः 'अकृतकारी खल्वपि शास्त्रमग्निवत् यद्दग्धं न दहतीति चेत्सत्यं पर्जन्यवल्लक्षणप्रवृत्तिरिति न्यायेन ह्रस्वस्यापि ह्रस्वः क्रियते, पर्जन्यो मेघो ऊन पूर्ण वानपेक्षमाणः सर्वत्र वर्षति यद्यपि जलपूर्ण वर्षत: तत्कालं फलं नास्त्येव, कालान्तरे तू ओषधिनिष्पत्तिरसाऽऽधिक्यादिकं फलमस्त्येवेति हस्वविधानसामर्थ्यात अत्रापि यत्वादिकार्यान्तरं न भवति । ह्रग्वविधानं निरवकाशं सत् 'निरवकाशस्य सर्वतो बलीयस्त्वात्' इति बलीयः सत् यादेशं बाधते इत्यर्थः । अग्निदग्धं न दहति तत्र तु अयोग्यता बीजम् । नद्या अर्थ: नद्यर्थः, हितादित्वाच्चतुर्थीसमासः । अत्रान्ततिन्या विभक्तेरपेक्षया पदभेदेपि समासे सति ऐकपद्यमिति युगपत्पदत्वमपदत्वं च, तत्र पदभेदाश्रयेण विधीयमानो ह्रस्वो गौणः, अपदे इत्यत्र प्रसज्यप्रतिषेधाश्रये निषेधस्य प्राधान्यम् अर्थात् एकपदाश्रयेण निषेध: प्रधानम, तस्मात् 'गौणमुख्ययोमख्ये कार्यसम्प्रत्ययः' इति न्यायेन प्रधानाश्रितमेव कार्य भवतीति न ह्रस्वः । अपदे इति- अविभक्तिकानां प्रयोगानहत्वात् सविभक्तिकानां च पदत्वात् सर्वत्र पदस्यैव सद्भावे अपदे निमित्तनिमित्तिनो न सम्भवत: इति पदशब्देन एकपदमिह विवक्षितम् एकवचनमप्येतदर्थ पुष्णाति तच्चैकपदं नद्यौ इत्यपि, नद्यर्थ इत्येवं समासोपि । अत्र किञ्चित्- 'सर्वं वाक्यं सावधारणमिति न्यायात् भिन्नपदे एव ह्रस्वो भवति नद्यर्थ इत्यत्र तु एकपदेपि वर्तमानत्वात् ह स्वो न भवति ॥२२॥
एदेतोऽयाय् । १।२।२३। एदेतोः स्वरे परे यथासंख्यं अय् आय् इत्येतौ स्याताम् । नयनम्,