________________
इत्यर्थः । नत्रों द्वधा
नत्रों द्वौ समाख्यातो, पर्युदासप्रसज्यको । पर्युदास: सदृग्ग्राही. प्रसज्यस्तु निषेधकृत् ।। प! दासः स विज्ञय: यत्रोत्तरपदेन नज् ।
प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् ।
पर्युदासोदाहरणं तु 'अब्राह्मणमानय' इत्युनो ब्राह मणभिन्नो मनुष्यत्वेन सदृश एवानीयते न तु गर्दभादिः । प्रसज्योदाहरणं तु अगमनमित्युत्तो गमनाभाव: प्रतीयते । प्रसज्यप्रतिषेधेऽसमर्थसमासकल्पना, वाक्यभेद:, क्रियाध्याहारश्च । पर्युदासे लाघवेऽपि यत्र तत्कल्पनेऽतिप्रसङ्गः तत्र प्रसज्योपि आश्रीयते 'अस्वे' इत्यत्र पर्युदास एवाश्रयणीयः । ननु तथासति स्वरत्वेन सादृश्यग्रहणे 'स्वरे' इत्युपादानं व्यर्थं स्यादिति चेन्न पर्युदासाश्रयणे हि केन धर्मेण सादृश्याश्रयणं ? वर्णत्वेन सादृश्यग्रहणे मधु पिबतीत्यत्रापि वकार: स्यात्तनिराकरणार्थम् । यद्वा 'नक्तं तत्सादृश्ये' इति न्यायस्यानित्यत्वेन व्य
जनेप्यस्य प्रवृत्तौ मधु पिबतीत्यत्रापि वकारः स्यातन्निराकरणार्थ 'स्वर' इत्यस्यावश्यकर्ता।
दध्यत्रेत्यस्य चतुः- पञ्चाशद्र पाणि।
ततोऽस्या: । १।३ । ३४ । सूत्रात् वर्जवर्गात्परस्या अन्तस्थाया द्व रुपे भवत इति यकारस्य वा द्वित्वम् । केषाञ्चिन्मते संयुन व्यञ्जनपरेऽपि द्वित्वमिति पुनर्वस्य द्वित्वे त्रिधं रुपम् । (१) एकधं एकयम् (२) एकधं द्वियम्, (३) द्विधमेकयम् (४) द्विध द्वयम् (५) विधमे कयम् (६) विधं द्वयम् (७) यागमे दधियोति (८) न सन्धिः । १ । ३ । ५२ । इत्यसन्धौ दधि अत्र (९) 'अ इ उवर्णस्या० ॥१२॥४१॥ सूत्रादिकारस्य सानुनासिकत्वे दधिं अत्र एवं नवरूपाणि । अत्रेत्यत्र तद्विवे द्वितानि नव, पुनस्तद्वित्वे त्रितानि नव एवं सप्तविंशतिः । अन्तस्याकारस्यानुनासिकत्वे पुन: सप्तविंशतिरेव चतु:पञ्चाशद्र पाणि। धुटो धुटि स्वे वा।१।३ । ४८ । विकल्पेन धकारलोपे तथा 'व्यजनातः । १।३ । ४७ । सूत्राद्विकल्पेन यकारलोपे रूपाणि भवन्ति तानि तु पूर्वोक्तरुपेभ्यो न भिद्यन्तेऽतो पृथग्न दर्शितानि ॥२१॥
-
हस्वोऽपदे वा।१।२।२२ ।